Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४०८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ शक्तयश्च-त्रिशूलरूपाः कणकाश्चबाणाः तथा वामकरगृहीतानि खेटकानि च फलकानि निर्मला निकृष्टाः खङ्गाश्च - उज्ज्वलविकोशीकृतकरयालाः तथा पहरन्ततित - प्रहारप्रवृत्तानि कुन्तानि च - शस्त्रविशेषाः तोमराश्च- बाणविशेषाश्चकाणि च - अराणि गदाश्च दण्डविशेषाः
परशवश्च - कुठाराः मुशलानि च-प्रतीतानि लाङ्गलानि च-हलानि शूलानि च लगुडाश्च प्रतीताः भिण्डमालानि च - शस्त्रविशेषा. शब्बलाश्च - भल्लः पट्टिसाश्च अस्तविशेषाः चर्मेष्टाश्च चर्म्मनद्धपाषाणाः द्रुघणाश्च मुद्गरविशेषाः मौष्टिकाश्च मुष्टिप्रमाणपाषाणाः मुद्गराश्च प्रतीताः वरपरिघाश्चप्रबलार्गलाः यन्त्रप्रस्तराश्च - गोफणादिपाषाणाः द्रुहणाश्च - टक्कराः तोणाश्च शरघयः कुवेण्यश्च - रूढिगम्याः पीठानि च - आसनानीति द्वन्द्वः एभिः प्रतीताप्रतीतः प्रहरणविशेषैः कलितोयुक्तो यः स तथा ईलीभिः करवालविशेषैः प्रहरणैश्च - तदन्यैः 'मिलिमिलमिलंत 'त्ति चिकिचिकायमानैः 'खिष्पंत' त्ति क्षिप्यमाणैर्विद्युतः - क्षणप्रभायाः उज्ज्वलाया - निर्मलायाः
-
Jain Education International
-
विरचिता - विहिता समा-सध्शी प्रभा दीप्तिर्यत्र तत्तथा तदेवंविधं न भस्तलं यत्र स तथा तत्र सङ्ग्रामे तथा 'स्फुटप्रहरणे' स्फुटानि - व्यक्तानि प्रहरणानि यत्र स तथा तत्र सङ्ग्रामे, तथा महारणस्य सम्बन्धीनि यानि शङ्खश्च भेरी च- दुन्दुभी: वरतूर्यं - लोकप्रतीतं तेषां प्रचुराणां पटूनां - स्पष्टध्वनीनां पटहानांच-पटहकानां आहतानां - आस्फालितानां निनादेन - ध्वनिना गम्भीरेण - बहलेन ये नन्दिता - हष्टा प्रक्षुभिताश्च भीतास्तेषां विपुलो - विस्तीर्णो घोषो यत्र स तथा तत्र, इयगजरथयोद्धेभ्यः सकाशात् त्वरितं शीघ्रं प्रसृतं - प्रसरमुपगतं यद्रजो - धूली तदेवोद्धततमान्धकारं - अतिशयप्रबहलतमिं तेन बहुलो यः स तथा तत्र, तथा कातरनाराणां नयनयोहृदयस्य च 'वाउल’'त्ति व्याकुलं क्षोभं करोतीत्येवंशीलो यः स तथा तत्र,
- तथा विलुलितानि-शिथिलतया चञ्चलानि यान्युत्कटवराणि-उन्नतप्रवराणि मुकुटानिमस्तकाभरणविशेषास्तिरीटानि च - तान्येव शिखरत्रयोपेतानि कुण्डलानि च - कर्णाभरणानि उडुदामानि च - नक्षत्रमालाभिधानामभरणविशषास्तेषामाटोपः स्फारता सा विद्यते यत्र स विलुलितोत्कटवरमुकुटतिरीटकुण्डलोडुदामाटोपिक इति, तथा प्रकटा या पताका उच्छ्रिताऊर्ध्वकृता ये ध्वजा-गरुडादिध्वजा वैजयन्त्यश्च - विजयसूचिकाः पताका एव चामराणि च चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकारं तेन गम्भीरः- अलब्धमध्यो यः स तथा ततः कर्मधारयस्ततस्तत्र तथा हयानां यत् हेषितं-शब्दविशेषः हस्तनां च यद् गुलुगुलायितं - शब्दविशेष एव तथा रथानां यत् 'घणघणाइय'त्ति घणघणेत्येवंरूपस्य शब्दस्य करणं तथा 'पाइक्क' त्ति पदातीनां यत् 'हरहराइय'त्ति हरहरेतिशब्दस्य करणं आस्फोटितं च-करास्फोटरूपं सिंहनादश्च - सिंहस्येव शब्दकरणं 'छेलिय'त्ति सेंटितं सीत्कारकरणं विघुष्टं च-विरूपघोषकरणं उत्कृष्टं च - उत्कृष्टिनाद आनन्दमहाध्वनिरित्यर्थः कण्ठकृतशब्दश्च - तथाविधो गलरवः त एव भीमगर्जितं - मेघध्वनिर्यत्र स तथा तत्र, तथा 'सयराह' त्ति एकहेलया हसतां रुष्यतां वा कलकललक्षणो रवो यत्र स तथा आशूनितेन -- ईषत्स्थूलीकृतेन वदनेन ये रौद्रा-भीषणास्ते तथा, तथा भीमं यथा भवतीत्येवं दशनैरधरोष्ठो गाढं दष्टो यैस्ते तथा, ततः कर्मधारयः, ततस्तेषां भटानां सम्प्रहारणे - सुष्ठु प्रहारकरणे उद्यताः - प्रयत्नप्रवृत्ताः करा यत्र स तथा तत्र, तथा अमर्षवशेन- कोपवशन तीव्रं - अत्यर्थं रक्ते- लोहिते निर्धारिते- विस्फारिते अक्षिणी - लोचने यत्र स तथा, वैरप्रधाना दृष्टि: वैरदृष्टिस्तया
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192