Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 44
________________ द्वारं-१, अध्ययनं -२, ३९७ वा इति समासः, तत्र जातिकूले- मातापितृपक्षौ तद्धेतुकं च प्रायोऽलीकं सम्भवति, यतो जात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं - आकृतिः शीलं - स्वभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते ? - चपला मनश्चापल्यादीना, किम्भूतं तत् ? - पिशुनं परदोषाविष्करणरूपं परमार्थभेदकं - मोक्षप्रतिघातकं 'असंतगं' ति असत्कमविद्य मानार्थमसत्यमित्यर्थः असत्त्वकं वा - सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारकं - पुरुषार्थोपघातकं पापकर्ममूलं क्लिष्टज्ञानावरणादिबीजं दुष्टं असम्यक् ध्ष्टं दर्शनं यत्र तद्दुर्दष्टं दुष्टं श्रुतं -श्रवणं यत्र तद्दुः श्रुतं नास्ति मुणनितं ज्ञानं यत्र तदमुणितं निर्लज्जं - लज्जारहितं लोकगर्हणीयं प्रतीतं, 'वधबन्धपरिक्लेशबहुलं' तत्र वधो - यष्ठयादिताडनं बन्धः -- संयमनं परिक्लेशः - उपतापस्ते बहुलाः- प्रचुरा यत्र तत्तथा, भवन्ति चैतेऽसत्यवादिनामिति, जरामरणदुःखशोकेनेमं जरादीनां मूलमित्यर्थः, अशुद्धपरिणामेन संश्लिष्टं-सङ्कलेशवद्यत्तत्तथा, भणन्ति, के ? - अलीको योऽभिसन्धिःअभिप्रायस्तत्र निविष्टा अलीकाभिसन्धिनिविष्टाः असद्गुणोदीरकाश्चेति व्यक्तं सद्गुणनाशकाश्चतदपलापका इत्यर्थः, तथा हिंसया भूतोपघातो यत्रास्ति तद्धिंसाभूतोपघातिकं वचनं भणन्तीति योगः, अलीकसम्प्रयुक्ताः- सम्प्रयुक्तालीकाः, कथम्भूतं वचनं ? -सावद्यं गर्हितकर्मयुक्तं अकुशलं जीवानामकुशलकारित्वात् अकुशलनरप्रयुक्तत्वाद्वा, अत एव साधुगर्हणीयं अधर्म्मजननं भणन्तीति पदत्रयं प्रतीतं कथम्भूता इत्याह ? - अनधिगतपुण्यपापाः-अवेदितपुण्यपापकम्महेतव इत्यर्थः, तदधिगमे हि नालीकवादे प्रवृत्तिः सम्भवति, पुनश्च अज्ञानोत्तरकालं अधिकरणविषया या क्रिया- व्यापारस्तत्प्रवर्त्तकाः, तत्राधिकरणक्रिया द्विविधा- निर्वर्त्तनाधिकरणक्रिया संयोजनाधिकरणक्रिया च तत्राद्या खङ्गादीनां तन्मुष्टयादीनां च निर्वर्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुर्गतौ यकाभिरधिक्रियते प्राणिनः ताः सर्वा अधिकरणक्रिया इति, बहुविधमनर्थहेतुत्वात् अपमर्द्दउपमर्द्दनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्पन्तो भाषमाणाः, एतदेवाह - महिषान् शूकरांश्च प्रतीतान् साधयन्ति--प्रतिपादयन्ति घातकानां तद्धिसकानां, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याः चतुष्पदविशेषाः, वागुरा - मृगबन्धनं सा येषामस्ति ते वागुरिणः, तित्तरवर्त्तकलावकांश्च कपिञ्जलकपोतकांश्च-पक्षिविशेषान् साधयन्ति शकुनेन शयेनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां साउणीणमिति प्राकृतत्वात्, झषमकरान् कच्छपांश्च - जलचरविशेषान् साधयन्ति, मत्स्याः पण्यं येषां ते मात्स्यिकास्तेषां, 'संखंक' त्ति शङ्खाः प्रतीताः अङ्काश्च - रूढिगम्याः अतस्तान् क्षुल्लकांश्च - कपर्द्दकान् साधयन्ति, मकरा इव मकरा जलविहारित्वाद्धीवरास्तेषां, पाठान्तरे मग्गिणां मार्गयतां तद्गवेषिणां अजगर गोनसमण्डलिदर्व्वीकरमुकुलिनश्च साधयन्ति, तत्र अजगरादय उरगविशेषाः दर्वीकराः-फणभृतः मुकुलिनःतदितरे, व्यालान्- भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां, अथवा व्यालपानामत्र प्राकृतत्वन - बालवीणंति प्रतिपादतं, वाचनान्तरे 'वायलियाणं' ति दृश्यते, तत्र व्यालैश्चरन्तीति वैयालिकास्तेषां वैयालिकानामिति, तथा गोधाः सेहाश्च शल्यकशर टकांश्च साधयन्ति लुब्धकानां, गोधादयो भुजपरिसर्पविशेषाः शरटकाः- कृकलाशाः, For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192