________________
द्वारं-१, अध्ययनं -२,
३९७
वा इति समासः, तत्र जातिकूले- मातापितृपक्षौ तद्धेतुकं च प्रायोऽलीकं सम्भवति, यतो जात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं - आकृतिः शीलं - स्वभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते ? - चपला मनश्चापल्यादीना, किम्भूतं तत् ? - पिशुनं परदोषाविष्करणरूपं परमार्थभेदकं - मोक्षप्रतिघातकं 'असंतगं' ति असत्कमविद्य मानार्थमसत्यमित्यर्थः असत्त्वकं वा - सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारकं - पुरुषार्थोपघातकं पापकर्ममूलं क्लिष्टज्ञानावरणादिबीजं दुष्टं असम्यक् ध्ष्टं दर्शनं यत्र तद्दुर्दष्टं दुष्टं श्रुतं -श्रवणं यत्र तद्दुः श्रुतं नास्ति मुणनितं ज्ञानं यत्र तदमुणितं निर्लज्जं - लज्जारहितं लोकगर्हणीयं प्रतीतं, 'वधबन्धपरिक्लेशबहुलं' तत्र वधो - यष्ठयादिताडनं बन्धः -- संयमनं परिक्लेशः - उपतापस्ते बहुलाः- प्रचुरा यत्र तत्तथा,
भवन्ति चैतेऽसत्यवादिनामिति, जरामरणदुःखशोकेनेमं जरादीनां मूलमित्यर्थः, अशुद्धपरिणामेन संश्लिष्टं-सङ्कलेशवद्यत्तत्तथा, भणन्ति, के ? - अलीको योऽभिसन्धिःअभिप्रायस्तत्र निविष्टा अलीकाभिसन्धिनिविष्टाः असद्गुणोदीरकाश्चेति व्यक्तं सद्गुणनाशकाश्चतदपलापका इत्यर्थः, तथा हिंसया भूतोपघातो यत्रास्ति तद्धिंसाभूतोपघातिकं वचनं भणन्तीति योगः, अलीकसम्प्रयुक्ताः- सम्प्रयुक्तालीकाः, कथम्भूतं वचनं ? -सावद्यं गर्हितकर्मयुक्तं अकुशलं जीवानामकुशलकारित्वात् अकुशलनरप्रयुक्तत्वाद्वा,
अत एव साधुगर्हणीयं अधर्म्मजननं भणन्तीति पदत्रयं प्रतीतं कथम्भूता इत्याह ? - अनधिगतपुण्यपापाः-अवेदितपुण्यपापकम्महेतव इत्यर्थः, तदधिगमे हि नालीकवादे प्रवृत्तिः सम्भवति, पुनश्च अज्ञानोत्तरकालं अधिकरणविषया या क्रिया- व्यापारस्तत्प्रवर्त्तकाः, तत्राधिकरणक्रिया द्विविधा- निर्वर्त्तनाधिकरणक्रिया संयोजनाधिकरणक्रिया च तत्राद्या खङ्गादीनां तन्मुष्टयादीनां च निर्वर्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुर्गतौ यकाभिरधिक्रियते प्राणिनः ताः सर्वा अधिकरणक्रिया इति, बहुविधमनर्थहेतुत्वात् अपमर्द्दउपमर्द्दनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्पन्तो भाषमाणाः,
एतदेवाह - महिषान् शूकरांश्च प्रतीतान् साधयन्ति--प्रतिपादयन्ति घातकानां तद्धिसकानां, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याः चतुष्पदविशेषाः, वागुरा - मृगबन्धनं सा येषामस्ति ते वागुरिणः, तित्तरवर्त्तकलावकांश्च कपिञ्जलकपोतकांश्च-पक्षिविशेषान् साधयन्ति शकुनेन शयेनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां साउणीणमिति प्राकृतत्वात्, झषमकरान् कच्छपांश्च - जलचरविशेषान् साधयन्ति, मत्स्याः पण्यं येषां ते मात्स्यिकास्तेषां, 'संखंक' त्ति शङ्खाः प्रतीताः अङ्काश्च - रूढिगम्याः अतस्तान् क्षुल्लकांश्च - कपर्द्दकान् साधयन्ति, मकरा इव मकरा जलविहारित्वाद्धीवरास्तेषां, पाठान्तरे मग्गिणां मार्गयतां तद्गवेषिणां अजगर गोनसमण्डलिदर्व्वीकरमुकुलिनश्च साधयन्ति, तत्र अजगरादय उरगविशेषाः दर्वीकराः-फणभृतः मुकुलिनःतदितरे, व्यालान्- भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां, अथवा व्यालपानामत्र प्राकृतत्वन - बालवीणंति प्रतिपादतं, वाचनान्तरे 'वायलियाणं' ति दृश्यते,
तत्र व्यालैश्चरन्तीति वैयालिकास्तेषां वैयालिकानामिति, तथा गोधाः सेहाश्च शल्यकशर टकांश्च साधयन्ति लुब्धकानां, गोधादयो भुजपरिसर्पविशेषाः शरटकाः- कृकलाशाः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International