________________
३९८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ गजकुलवानरकुलानिच साधयन्ति पाशिकानं, कुलं-कुटुंब यूथमित्यर्थः, पाशेन-बन्धनविशेषण चरन्तीति पाशिकास्तेषां, शुकाः-कीराबर्हिणोमयूराः मदनशालाः-शारिकाः कोकिलाः परभृतः हंसाः-प्रतीतास्तेषां यानि कुलानि-वृन्दानि तान तथा, सारसांश्च साधयन्ति पोषकाणांपक्षिपोषकाणामित्यर्थः, तथा वधः-ताडनंबन्धः-संयमनं यातनंच-कदर्थनमिति समाहारद्वन्द्वस्तच्च साधयन्ति गोल्मिकानां-गुप्तपालकानां, तथाधनधान्यगवेलकांश्चसाधयन्तितस्कराणामिति प्रतीतं, किन्तु गावो-बलीवईसुलरभयः एलका-उरभ्राः, तथा ग्रामनगरपत्तनानि साधयन्ति चारिकाणां, नकर-करवर्जितं, पतनं द्विविध-जलपत्तनं स्थलपकत्तनं च, यत्र जलपथेन भाण्डानामागमस्तदाायत्रचस्थलपथेनतदितरत्, चारिकाणां-प्रणिधिपुरुषाणां, तथा पारे-पर्यन्ते मार्गस्य धातिका-गन्तृणां हननं पथिघातिका अनयोर्द्वन्दवोऽस्ते, साधयन्ति च ग्रन्थिभेदानांचौरविशेषाणां कृतां च चौरिकां-चोरणं नगरगुप्किकानां-नगररक्षकाणां साधयन्तीति वर्तते, तथा लाञ्छनं-कर्णादिकल्पनाङ्कनादिभिर्निलाञ्छनं-वर्द्धितककरणं 'धमणं'तिध्यमानं महिष्यादीनां वायुपूरणंदोहनं-प्रतीतंपोषणं-यवसादिदानतःपुष्टिकरणं वञ्चनं-वत्सस्यान्यमातरि योजन
'दुमणं ति दुवनमुपतापनमित्यर्थः वाहनं-शकटाधाकर्षणं एतदादिकानि अनुष्ठानानि साधयन्ति बहनि गोमिकानां-गोमतां, तथा धातु-गैरिकं धातवो वा-लोहादयः मणयःचन्द्रकान्ताधाः शिला-दषदः प्रवालानि-विद्रुमाणि रत्नानि-कर्केतनादीनि तेषामाकराःखानयस्तान साधयन्त्याकरिणां-आकरवतां, 'पुष्पे' त्यादि वाक्यं प्रतीतं,
नवरं विधिः-प्रकारः, तथा अर्थश्च मूल्यमानं मधुकोशकाश्च-क्षौद्रोत्पत्तिस्थानानि अर्थमधुकोशकास्तान् साधयन्तिवनचराणां-पुलीन्द्राणां, तथायन्त्राणि-उच्चाटनाद्याक्षरलेखनप्रकारान् जलसङ्गङ्ग्रामादियन्त्राणि वा उदाहरन्तीति योगः, विषाणि-स्थावरजङ्गमभेदानि हालाहलानि मूलकम-मूलादिप्रयोगतो गर्भपातनादि 'आहेवण'त्ति आक्षेपं पुरक्षोभादिकरणं पाठान्तरेण 'आहिच्वणं'ति आहित्यं अहितत्वं-शत्रुभावं पाठान्तरेण 'अविंधणत्ति आव्यधनं मन्त्रावेशनमित्यर्थः आभियोग्यं-वशीकरणादितच्च द्रव्यतोद्रव्यसंयोगजनितंभावतो विद्यामन्त्रादिजनितं बलात्कारोवा मन्त्रौषधिप्रयोगान्नानाप्रयोजनेषु तद्वयापाराणानीति द्वन्द्वोऽतस्तान, तथा चोरिकाया; परदारगमनस्य बहुपापस्य च कर्मणो व्यापारस्य यत्करणं तत्तथा,
अवस्कन्दान्-छलेन परबलमर्दनानि ग्रामघातिकाः प्रतीताः वनदहनतडागभेदनानि च प्रतीतान्येव बुद्धेविषयस्य च यानि विनाशनानि तथा वशीकरणानि प्रतीतानि भयमरणक्लेशद्वेषजनकानि कर्तुरितिगम्यते, भावेन-अध्यवसायेन बहुसकिलष्टेन मलिनानि-कलुषाणि यानि तानि तथा, भूतानां-प्राणिनां घातश्च-हननं उपधातश्च-परम्पराघातः तौ विद्येते येषु तानि भूतघातोपघातकानि, सत्यान्यपि द्रव्यतस्तानीति यानि पूर्वमुपदर्शितानि हिंसकानि-हिंस्राणि वचनान्युदाहरन्ति, तथा पृष्टा वा अपृष्टावा प्रतीताः परतप्तिव्यावृत्ताश्च-परकृत्यचिन्तनाक्षणिकाः असमीक्षितभाषिणः-अपर्यालोचितवक्तारः उपदिशति-अनुशासति सहसा अकस्मात् यदुत् उष्ट्रा:-करभाः गोणा-गावः गवया-आटव्यः पशुविशेषाः दम्यतन्तां-विनीयन्तां, तथा परिणतवयसः-सम्पन्नावस्थाविशेषास्तरुणा इत्यर्थः अश्वा हस्तिनःप्रतीताः गवेलगकुक्कुटाश्चFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International