________________
द्वारं-१,
• अध्ययनं -२,
३९९
उरभ्रताम्रचूडाश्च क्रीयन्तां - मूल्येन गृह्यतां क्रापयत च एतान्येव ग्राहयत च विक्रीणिध्वं विक्रेतव्यं,
तथा पचत च पचनीयं, खजनाय च दत्त पिबत च पातव्यं मदिरादि, वाचनान्तरेण खादत पिबत दत्त च, तथा दास्यः - चेटिका दासाः - चेटकाः भृतकाः -- भक्तदानादिना पोषिताः 'भाइल्लग' त्ति ये लाभस्य भागं - चतुर्भागादिकं लभन्ते, एतेषां द्वन्द्वस्तस्ते च शिष्याश्च - विनेयाः प्रेष्यजनः - प्रयोजनेषु प्रेषणीयोलोकः कर्मकराः - नियतकालमादेशकारिणः किङ्गराश्च - आदेशसमाप्तौ पुनः प्रश्नकारिणः एते पूर्वोक्ताः स्वजनपरिजनं च कस्मादासते अवस्थानं कुर्वन्ति
'भारिया मे करितु कम्मं' ति कृत्वा - विधाय कर्म्म-कृत्यं तत्समाप्तौ यतो भारिका - दुर्निर्वाहः 'भे' भवतां, 'करित्वि' ति क्वचित्पाठः तत्र 'भारिय'त्ति भार्या 'भे' भवतः सम्बन्धिन्यः कर्म कुर्वन्तु, अन्यान्यपि पाठान्तराणि सन्ति तानि च स्वयं गमनीयानि, तथा गहनानि - गह्वराणि वनानि च-वनखण्डाः क्षेत्राणि च-धान्यवपनभूमयः खिलभूमयश्च - हलैरकृष्टाः वल्लराणि चक्षेत्रविशेषास्ततस्तानि उत्त णैः ऊर्द्धगतैः तृणैः धनं-- अत्यर्थं सङ्कटानि सङ्कीर्णानि यानि तानि तथा तानि दह्यन्ता, पाठान्तरेण गहनानि वनानि छिद्यन्तमखिलभूमिवल्लराणि उत्त णधनसङ्कटानि दह्यन्तां, 'सूडिज्जंतु य'त्ति सूद्यन्तां च वृक्षाः भिद्यन्तां छिद्यन्तां वा यन्त्राणि च - -तिलयन्त्रादिकानि भाण्डानि च - भाजनानि कुण्डादीनि भण्डी वा- गन्त्री एतान्यादिर्यस्य तत्तथा तस्य उपधेःउपकरणस्य 'कारणाए 'त्तिकारणाय हेतवे, वाचनान्तरे तु यत्र भाण्डस्योक्तरूपस्य कारणात् - हेतोः,
तथा बहुविधस्य च कार्यसमूहस्येति गम्यं, अर्थाय इक्षवो 'दुजंतु 'त्ति दूयन्तां लूयन्तामिति धातूनामनेकार्थत्वात्, तथा पीड्यन्तां च तिलाः पायत चेष्टकाः गृहार्थं, तथा क्षेत्राणि कृषत कर्षयत वा, तथा लघु - शीघ्रं ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः नगरंअविद्यमानकरदानं कर्बर्ट -कुनगरं क्व ? - अटवीदेशेषु, किंभूतानि ग्रामादीनि ? - विपुलसीमानि, तथा पुष्पादीनि प्रतीतानि 'कालपत्ताई' ति अवसरप्राप्तानि गृह्वीत कुरुत सञ्चयं परिजनार्थं, तथा शाल्यादयः प्रतीताः लूयन्तां मल्यन्तां उत्पूयन्तां च लघु च प्रविशन्तु कोष्ठागारं 'अप्पमहुक्कोसगाई' ति अल्पा- लघवो महान्तः - तदपेक्षया मध्यमा इत्यर्थः उत्कृष्टा - उत्तमाश्च हन्यन्तां पोतसार्था:- बोहित्यसमुदायाः शावकसमूहा वा, तथा सेना सैन्यं निर्यातु-निर्गच्छतु निर्गत्य च यातु- गच्छतु डमरं विडरस्थानं तथा च घोरा- रौद्राश्च वर्तन्तां च-चायन्तां सङ्ग्रामा - रणाः तथा प्रवहन्तु च- प्रवर्त्तता शकटवाहनानि - गन्त्रोय यानपात्राणि च, तथा उपनयनं - बालानां कलाग्रहणं 'चोलगं' ति चूडापनयनं बालकप्रथममुण्डनं विवाहं - पाणिग्रहणं यज्ञो-यागः अमुष्मिन् भवतु दिवसे तथा सुकरणं- बवादिकानामेकादशानामन्यतरदभिमतं समुहूर्ते - रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः एतयोः समाहारद्वन्द्वस्ततस्तत्र,
तथा सुनक्षत्रे - पुष्यादी सुतिथौ च पञ्चानां नन्दादीनामन्यतरस्यामभिमतायां अद्यअस्मिन्नहनि भवतु स्नपनं सौभाग्यपुत्राद्यर्थं वध्वादेर्मज्जनं मुदितं - प्रमोदवत् बहुखाद्यपेयकलितं- प्रभूतमांसमद्याद्युपेतं तथा कौतुकं रक्षादिकं विण्हावणक' त्ति विविधैर्मन्त्रमूलादिभिः संस्कृतजलैः स्नापनकं विस्नापनकं शान्तिकर्म्मच - अग्निकारिकादिकमिति द्वन्द्वः, ततस्ते कुरुत, केष्वित्याह-शशिरव्योः- चन्द्रसूर्ययोग्रहण- राहुलक्षणेन उपरागः- उपरञ्जनं ग्रहणमित्यर्थः शशिरविग्रहोपरागः, स च विषमाणि च विधुराणि दुःखप्राशिवादीनि तेषु, किमर्थमित्याह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International