Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 37
________________ ३९० प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ पाठान्तरेण हासार्थाय ‘सक्खि'त्ति साक्षिणः चौराश्चारभटाश्च प्रतीताः 'खंडरक्ख'त्ति शुल्कपालाः 'जियजूइकारा यत्ति जिताश्च ते द्यूतकाराश्चेति समासः 'गहियगहणत्ति गृहीतानि ग्रहणानिग्रहणकानि यैस्ते तथा, 'कक्कगुरुगकारगति कल्कगुरुकं-माया तत्कारकाः 'कुलिङ्गी तिकुलिङ्गिनः कुतीर्थिकाः 'उवहिया वाणियगा यत्ति औपधिकाः-मायाचारिणः वाणिजका-वणिजः किम्भूताः ?कूटतुलाकूटमानिनः कूटकार्षापणोपजीविन इतिपदद्वयं व्यक्तं, नवरंकार्षापणो-द्रम्मः पडकारकलायकारुइज्जति पटकारकाः-तन्तुवायाः कलादाः-सुवर्णकाराः कारुकेषु-वरुटच्छिपकादिषु भवा कारुकीयाः, किंविधाएतेअलीकंवदन्तीत्याह-वञ्चनपराः,तथाचारिका हैरिकाश्चाटुकराःमुखमङ्गलकरा नगरगुप्तिकाः-कोट्टपालाः परिचारका-येपरिचारणां-मैथुनाभिष्वङ्गकुर्वन्ति कामुका इत्यर्थः, दुष्टवादिनः असत्पक्षग्राहिणः शूचकाः-पिशुनाः ‘अणबलभणियाय'त्ति ऋणे ग्रहीतव्ये बलं यस्यासौ ऋणबलो बलवानुत्तमर्णस्तेन भणिता-अस्मद्रव्यं देहीत्येवमभिहिता ये अधमास्ते तथा ततश्चारिकादीनां द्वन्द्वः 'पुव्बकालियवयणदच्छत्ति वक्तुकामस्य वचनाद्यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकालिकं वचनं तत्र वक्तव्ये ये दक्षास्ते तथा, अथवा पूर्वकालिकानामर्थानां वचने ये अदक्षा-निरतिशयनिरागमास्ते तथा सहसाअवितक्य भाषणे ये वर्तन्ते ते साहसिकाः लघुस्वका-लघुकात्मानः असत्याः-सद्भ्योऽहिताः गौरविकाः-ऋद्धयादिगौरवत्रयेण चरन्ति ये असत्यानामर्थानां स्थापना-प्रतिष्ठामधि चित्तं येषां तेअसत्य स्थापनाधिचित्ताः उच्चो-महानात्मोत्कर्षणप्रवणश्छन्द:-अभिप्रायोयेषां ते उच्चच्छन्दाः अनिग्रहाः-स्वैराःअनियता-अनियमवन्तोऽनवस्थिता इत्यर्थः अनिजका वा-अविद्यमानस्वजनाः अलीकं वदन्तीति प्रकृतं, तथा छन्देन-स्वाभिप्रायेण मुक्तवाचः-प्रयुक्तवचना अथवा छन्देन मुक्तवादिनः--सिद्धवादिनस्ते भवन्ति, के इत्याह-अवलीकाद्ये अविरताः। तथा अपरे-उक्तेभ्योऽन्ये नास्तिकवादिनो-लोकायतिकाः वाम-प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति-प्रपूपयन्ति, किं ?, शून्यमिति, जगदिति गम्यते, कथं ?, आत्माद्यभावात्, तदेवाह-नास्ति जीवस्तप्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्योऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात्, नाप्युनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्रवृत्तेः,आगमानांच परस्परतोविरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति-न गच्छति ‘इहे ति मनुष्यापेक्षया मनुष्यलोके परे वाऽस्मिन्-तदपेक्षयैव देवादिलोके न च किञ्चिदपि स्पृशति-बध्नाति पुण्यपाप-शुभाशुभं कर्म नास्ति फलं सुकृतदुष्कृतानांपुण्यापापकर्मणां जीवासत्वेन तयोरप्यसत्त्वात्, तथापञ्चमहाभौतिकंशरीरंभाषन्तेहेइति निपातो वाक्यालङ्कारेवातयोगयुक्तं प्राणवायुना सर्वक्रियासु प्रवर्तितमित्यर्थः, तत्र पञ्च महाभूतिकमिति-महान्ति च तानि लोकव्यापकत्वाद् भूतानि च-सद्भूतवस्तूनि महाभूतानि, तानि पृथिवी कठिनरूपाआपो द्रवलक्षणाः तेज उष्णरूपं वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं पनापरः शरीरवर्ती तन्निष्पादकोऽस्तिजीव इति विवक्षा, तथाहि-भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्रतीयमानत्वात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192