________________
३९०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११
पाठान्तरेण हासार्थाय ‘सक्खि'त्ति साक्षिणः चौराश्चारभटाश्च प्रतीताः 'खंडरक्ख'त्ति शुल्कपालाः 'जियजूइकारा यत्ति जिताश्च ते द्यूतकाराश्चेति समासः 'गहियगहणत्ति गृहीतानि ग्रहणानिग्रहणकानि यैस्ते तथा,
'कक्कगुरुगकारगति कल्कगुरुकं-माया तत्कारकाः 'कुलिङ्गी तिकुलिङ्गिनः कुतीर्थिकाः 'उवहिया वाणियगा यत्ति औपधिकाः-मायाचारिणः वाणिजका-वणिजः किम्भूताः ?कूटतुलाकूटमानिनः कूटकार्षापणोपजीविन इतिपदद्वयं व्यक्तं, नवरंकार्षापणो-द्रम्मः पडकारकलायकारुइज्जति पटकारकाः-तन्तुवायाः कलादाः-सुवर्णकाराः कारुकेषु-वरुटच्छिपकादिषु भवा कारुकीयाः, किंविधाएतेअलीकंवदन्तीत्याह-वञ्चनपराः,तथाचारिका हैरिकाश्चाटुकराःमुखमङ्गलकरा नगरगुप्तिकाः-कोट्टपालाः परिचारका-येपरिचारणां-मैथुनाभिष्वङ्गकुर्वन्ति कामुका इत्यर्थः, दुष्टवादिनः
असत्पक्षग्राहिणः शूचकाः-पिशुनाः ‘अणबलभणियाय'त्ति ऋणे ग्रहीतव्ये बलं यस्यासौ ऋणबलो बलवानुत्तमर्णस्तेन भणिता-अस्मद्रव्यं देहीत्येवमभिहिता ये अधमास्ते तथा ततश्चारिकादीनां द्वन्द्वः 'पुव्बकालियवयणदच्छत्ति वक्तुकामस्य वचनाद्यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकालिकं वचनं तत्र वक्तव्ये ये दक्षास्ते तथा,
अथवा पूर्वकालिकानामर्थानां वचने ये अदक्षा-निरतिशयनिरागमास्ते तथा सहसाअवितक्य भाषणे ये वर्तन्ते ते साहसिकाः लघुस्वका-लघुकात्मानः असत्याः-सद्भ्योऽहिताः गौरविकाः-ऋद्धयादिगौरवत्रयेण चरन्ति ये असत्यानामर्थानां स्थापना-प्रतिष्ठामधि चित्तं येषां तेअसत्य स्थापनाधिचित्ताः उच्चो-महानात्मोत्कर्षणप्रवणश्छन्द:-अभिप्रायोयेषां ते उच्चच्छन्दाः अनिग्रहाः-स्वैराःअनियता-अनियमवन्तोऽनवस्थिता इत्यर्थः अनिजका वा-अविद्यमानस्वजनाः अलीकं वदन्तीति प्रकृतं, तथा छन्देन-स्वाभिप्रायेण मुक्तवाचः-प्रयुक्तवचना अथवा छन्देन मुक्तवादिनः--सिद्धवादिनस्ते भवन्ति, के इत्याह-अवलीकाद्ये अविरताः।
तथा अपरे-उक्तेभ्योऽन्ये नास्तिकवादिनो-लोकायतिकाः वाम-प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति-प्रपूपयन्ति, किं ?, शून्यमिति, जगदिति गम्यते, कथं ?, आत्माद्यभावात्, तदेवाह-नास्ति जीवस्तप्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्योऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात्, नाप्युनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्रवृत्तेः,आगमानांच परस्परतोविरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति-न गच्छति ‘इहे ति मनुष्यापेक्षया मनुष्यलोके परे वाऽस्मिन्-तदपेक्षयैव देवादिलोके न च किञ्चिदपि स्पृशति-बध्नाति पुण्यपाप-शुभाशुभं कर्म नास्ति फलं सुकृतदुष्कृतानांपुण्यापापकर्मणां जीवासत्वेन तयोरप्यसत्त्वात्,
तथापञ्चमहाभौतिकंशरीरंभाषन्तेहेइति निपातो वाक्यालङ्कारेवातयोगयुक्तं प्राणवायुना सर्वक्रियासु प्रवर्तितमित्यर्थः, तत्र पञ्च महाभूतिकमिति-महान्ति च तानि लोकव्यापकत्वाद् भूतानि च-सद्भूतवस्तूनि महाभूतानि, तानि पृथिवी कठिनरूपाआपो द्रवलक्षणाः तेज उष्णरूपं वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं पनापरः शरीरवर्ती तन्निष्पादकोऽस्तिजीव इति विवक्षा, तथाहि-भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्रतीयमानत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org