________________
द्वारं-१, अध्ययनं-२,
३९१ तदितरस्य तु सर्वथा अप्रतीयमानत्वाद्, यत्तु चैतन्यं भूतेषुपलभ्यते तद्भूतेषु एव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घटवदिति, ततो भूतानामेव चैतन्याभि- व्यक्तिर्जलस्य बुबुदाभिव्यक्तिवदिति, अलीकवादिताचैषामात्मनः सत्त्वात्, सत्त्वंच प्रमाणोपपत्तेः, प्रमाणंचसर्वजनप्रतीतंजातिस्मरणाधन्यथाऽनुपपत्तिलक्षणमनेकधाशास्त्रान्तरप्रसिद्धमिति, नच भूतधर्मश्चैतन्यं, तदभावेऽपितस्य भावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां सर्वचैतन्यसद्भावाच्चेति,
‘पंच यखंधे भणंतिकेईत्तिपंचच स्कन्धान रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भणंति केचिदिति-बौद्धाः, तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः-सुखा दुःखा सुखदुःखेति त्रिविधवेदनास्वभावः विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः संज्ञास्कन्धश्चसंज्ञानिमित्तोदग्राहणात्मकःप्रत्ययः संस्कारस्कन्धः पुनः-पुण्यापुण्यादिधर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षादिभिरवसीयत इति,
तथा मणंच मणजीवियावयंति'त्तिन केवलंपञ्चैव स्कन्धानमनश्चमनस्कारो-रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एवजीवो येषां मतेन ते मनोजीवास्त एव मनोजीविकाः, अलीकवादिता चैषशां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे खल्पितेऽपि परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽ- सत्त्वान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादनात् अकृताभ्यागमादिदोषप्रसङ्गात्, कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक्पक्ष एवेति,
तथा 'वाउजीवोत्ति एवमाहंसुत्ति वातः-उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात्, तथा शरीरंसादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् 'इह भवे एगे भवेत्ति इह भव एव-प्रत्यक्षजन्मैव एको भवः-एकंजन्म नान्यः परलोकोऽस्तिप्रमाणाविषयत्वात् तस्य-शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रनाशस्तस्मिन् सति सर्वनाश इति-नात्मा शुभाशुभरूपं वा कर्म विशिष्टमशिष्यते इति, एतत् एवं
उक्तप्रकारं 'जपंति' जल्पन्ति, के ? -मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना । जीवपरलोकसिद्धेः, तथा किमन्यद्वदन्तीत्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दानव्रतपौषधानां वितरणनियमपर्वोपवासानांतथा तपः-अनशनादि संयमः-पृथिव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणं कल्याणहेतुत्वात्तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-क्रम्मक्षयसुगतिगमनादिकं, नापिचास्तिप्राणवधालीकवचनमशुभफलसाधनतयेति गम्यं, नचैव-नैवरचौर्यकरणं परदासेवनं चास्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्तते तत्सपरिग्रहं तच्च तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित्, क्रोधमानाद्यासेवनरूपं नरकादिका च जगतो विचित्रता स्वभावादेवन कर्मजनिता, तदुक्तं॥१॥ “कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता |
वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति ही॥"ति, मृषावादिता चैवमेतेषांस्वभावोहिजीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितंकÉवासौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org