________________
३९२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ अथानान्तरभूतस्ततोजीवएवासौतदव्यतिरेकात्तत्स्वरूपवत्, ततोनिर्हेतुकानारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवत्यतिप्रसन्मादिति,
तथाननैरयिकतिर्यग्मनुजानांयोनिः-उत्पत्तिस्थानं पुण्यपापकर्मफलभूताऽस्तीति प्रकृतं, नदेवलोको वाऽस्तिपुण्यकर्मफलभूतः,नैवास्ति सिद्धिगमनं, सिद्धेः सिद्धस्य चाभावात्, अम्बापितरावपिन स्तः, उत्पत्तिमात्रनिबन्धनत्वान्मातापितृत्वस्य, नचोत्पत्तिमात्रनिबन्धस्य मातापितृतया विशेषोयुक्तः, यतः कुतोऽपिकिञ्चिदुत्पद्यतएव, यथायचेतनात् सचेतनंयूकामत्कूणादिअचेतनं मूत्रपुरीषादिअचेतनाच सचेतनं यथा काष्ठाधुणकीटादि अचेतनंचर्णादि, तस्मात् जन्यजनकभावमात्रमर्थानामस्ति नान्योमातापित-पुत्रादिर्विशेष इति, तद्मावात्तद्भोगविनाशापानादिषु नदोष इतिभावो, मृषावादिता चैषां वस्त्वन्तरस्यापिचजनकत्वे समानेऽपितयोरत्यन्तहिततया विशेषवत्त्वेन सत्त्वात्, हितत्वं च तयोः प्रतीतमेव, आह च– “दुष्प्रतिकारा"वित्यादि, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धे, उच्यतेच॥१॥
"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा।
भूतानां महति कृतेऽपि हि प्रयले,
नाभाव्यं भवति न भाविनोऽस्ति नाशः॥" मृषाशादिता चैवमेषां-सकललोकप्रतीतपुरुषकारापलानेन प्रमाणातीतनियतिमताभ्युपगमादिति, तथा प्रत्याख्यानमपि नास्तिधर्मसाधनतया, धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रमाणाण्येनास्तित्वात्तद्वादिनामसत्यता, तथा नैवास्ति कालमृत्युः, तत्रकालो नास्ति अनुपलम्मात्, यच्च वनस्पतिकुसुमादि काललक्षणमाचक्षते तत्तेषामेव स्वरूपमिति मन्तव्यं,
__ असत्यतायामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात्, तथा मृत्युः-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेण विवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः, तदभावश्चायुष एवाभावात्, तथा अर्हदादयो 'नस्थित्ति न सन्ति प्रमाणाविषयत्वात् 'नेवस्थि केई रिसउत्ति नैव सन्ति केचिदपि ऋषयो-गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्यापि सर्वविरत्याधनुष्ठानस्यासत्तवात्, सतोऽपि वा निष्फलत्वादिति, अत्रचशिष्यादिप्रवाहानुमेयत्वा-दर्हदादिसत्वस्यानन्तरोक्तत्वाद् वादिनामसत्यता, ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाशाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद्बहुकं वा स्तोकं वा, धर्माधर्मयोरदष्टत्वेन नास्तित्वात्,
___ 'नथि फलं सुकए' त्यादि यदुक्तं प्राक्तत्सामान्यजीवापेक्षया यच्च धम्माधम्मे'त्यादि तद् दृश्यापेक्षयेति न पुनरुक्ततेति, ‘तम्ह'त्ति यस्मादेवं तस्मादेव-उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकलेसुत्तियथा यत्प्रकाराः सुबहु-अत्यतमिन्द्रियानुकूला येतेतथातेषुसर्वविषयेषु वर्तितव्यं, नास्ति काचित् क्रिया वा अनिन्द्यक्रिया अक्रिया वा-पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात्, भणंति च
॥१॥ “पिब खाद च चारुलोचने !, यदतीतं वरगात्रि! तन्नते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org