SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं -२, नहि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ॥” 'एव' मित्यादि निगमनं । तथा इदमपि द्वितीयं नास्तिकदर्सनापेक्षया कुदर्शनं-कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढा - व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणकत्वात् तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद् भावनीया, किम्भूतं दर्शनमित्याह- सम्भूतो - जातः अण्डका - जन्तुयोनिविशेषात् लोकः - क्षितिजलानलानिलवननरनरकनाकितिर्यग्रूपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च - आत्मना निर्मितोविहितः, तत्राण्डकप्रसूतभुवनवादिनां मतमित्यमाचक्षते 19 11 ॥३॥ ॥१॥ ॥२॥ ॥३॥ नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणविमण्डलनिभं ह्यद्यं काञ्चनकर्णिकम् ।। तस्मिन् पद्मे भगवान्, दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मान्तरः सृष्टाः ॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ कद्रूः सरीसॉपाणां सुलसा माता च नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजाना ।” मिति, एवमुक्तक्रममेतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानादिभिः प्ररूपितत्वात्, तथा प्रजापतिना -लोकप्रभुणा ईश्वरेण च महेश्वरेण कृतं विहितमिति केचि द्वादिनो वदन्तीति प्रकृतं, भणंति चेश्वरवादिनः- बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वाद् घटादिवदिति, कुदर्शनता चास्य वल्मीकबुद्धुदादिभिर्हेतोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथेश्वरकृतं तथा विष्णुमनयं-- विष्णवात्मकं कृतस्नमेव जगदिति केचिद्वदन्तीति प्रकृतं, भणंति च एतन्मतावलम्बिनो For Private & Personal Use Only ॥४॥ ॥५॥ ॥ ६ ॥ "पुव्वं आसि जगमिणं पंचमहब्भूयवजिय गभीरं । गण्णवं जलेणं महप्पमाणं तहिं अंडं ॥ वीईपरेण धोलंत अच्छिउं सुइरकालओ फुटं । फुट्ट दुभागजायं अब्भं भूमी संवृत्तं ॥ तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं । उप्पन्नं भणियमिणं बंभंडपुराणसत्थम्मि ।।" - तथा स्वयम्भूनिर्म्मितजगद्वादिनो भणन्ति-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतक्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ तस्मिनेकार्णवीभूते, नष्टस्थावरजङ्गमे । ॥७॥ ३९३ Jain Education International www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy