Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 27
________________ ३८० प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ प्रहारो लकुटादिना छिद्धि खगादिना भिंद्धि कुन्तादिना 'उप्पाडेहित्ति उत्पाटय भूतलादुत्क्षिप 'उक्खणाहित्ति उत्खनाक्षिगोलकबाह्नादिकं 'कत्ताहित्ति कृन्त कर्त्तय नासादिकं विकृन्त च-विविधप्रकारैः ‘भुज्जो'त्ति भूयः एकदा हन्त ! पुनरपि पाठान्तरे भञ्ज-आमईय हन-ताडय, क्रियार्थो हनशब्दो निपातः, _ विहण'ति विशेषेण ताडय 'विच्छुभत्ति विक्षिप त्रपुकादिकं मुखे विकीर्णं वा कुरु, वाचनान्तरे विच्छुभ निष्कालयेत्यर्थः, 'उच्छुभ'त्ति आधिक्येन क्षिप-प्रवेशयेत्यर्थः, आकृषअभिमुखमाकर्षणं कुरु विकृष-विपरीतं विकर्षणं कुरु, किं न जल्पसि?, वाचनान्तरे तु किं न जानासि ?, स्मर हे पाप ! कर्माणि दुष्कृतानि, एवं-अमुना प्रकारेण यद्वदनं-नरकपालप्रतिपादनं तेन महाप्रगल्भः-अतिस्फारोयःस तथा, पडिसुय'तिप्रतिश्रुप्रतिशब्दकस्तद्रूपोय; शब्दस्तेन सङ्घलःत्रासकःवाचनान्तरेतु 'बीहणओ तासणओ पइभओ अइभउत्ति एकार्थाः, सदा-सर्वदा, केषां त्रासक इत्याह-कदथ्यमानानां-यात्यमानानां निरयगोचराणां-नरकवर्तिनां 'महानगरडज्झमाणसरिसो'ति दह्यमानमहानगरघोषसध्शो निरअघोषो-महाध्वनिः श्रूयतेऽनिष्टः 'तहियंतितत्र नरके, केषांसम्बन्धीत्याह-'नेरइयाणं' किंभूतानामित्याह-यात्यमानानांकदर्यमानानांयातनाभिः-कदर्थनाप्रकारैः, किंते'त्तिकास्ताः? -असिवनं-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, दर्भपत्राणि छेदकानि तदग्राणि च भेदकानि भवन्तीति तद्यातनाहेतुत्वेनोक्तं, यंत्रप्रस्तरा-घरट्टदिपाषाणा यंत्रमुक्तपाषाणा वा यन्त्राणि च पाषाणाश्चेति वा यन्त्रपाषाणाः सूचीतलं-ऊर्द्धमुखशूचीकंभूतलक्षारवाप्य:-क्षारद्रव्यभृतवाप्यः कलकलंत'त्ति कलकलायमानं यत् त्रपुकादि तय ता वैतरण्यभिधाना या नदी सा कलकलायमानवैतरणी कदम्बपुष्पाकारा वालुका कदम्बवालुकाज्वलिता या गुहा-कन्दरा सातथाततो द्वन्द्वः ततोऽसिवनादिषुयनिरोधनंप्रक्षेपस्तत्तथा, उष्णोष्णे अत्युष्णे 'कण्टइल्लेत्ति कण्टकवति दुर्गमे कृच्छ्रगतिके रथे-शकरे यद्योजनंगवामिव तत्तथा ततोलोहपथे-लोहमयमार्गेयद्गमनं-स्वयमेवावाहनंच-अपरैर्गवामिव तत्तथा, ततः पदत्रयस्य द्वन्द्वः, 'इमेहिन्तिएभिर्वक्ष्यमाणैर्विविधैरायुधैः परस्परंवेदनामुदीरयन्तीति योगः किं तेत्ति तद्यता मुद्गरः-अयोधनः मुसुण्ढिः-प्रहणविशेषः 'करकयंतिक्रकचं-करपत्रं शक्तिः -त्रिशूलं हलं-लाङ्गलं गदा लकुटविशेषः मुशलं चक्रं कुन्तं च प्रतीतंतोमरो-बाणविशेषः शूलं प्रतीतं ‘लउड;त्ति लकुटं भिंडिमालः-प्रहणविशेषः सद्धलो-भल्लः पट्टिसः-प्रहरणविशेषः 'चर्मेष्टः' चर्मवेश्टितपाषाणविशेषो द्रुधणोमुद्गरविशेषः मौष्टिको-मुष्टिप्रमाणः पाषाण एव असिखेटकं-असिना सह फलकं खङ्गः केवल एव चापं धनुः नाराचःआयसो बाणः कणकोबाणविशेषाः कल्पनी-कर्त्तिकाविशेषः वासी-काष्ठतक्षकोपकरणविशेषः परशुः-कुठारविशेषः तत एतेषां द्वन्द्वः ततस्ते च ते टङ्गकतीक्ष्णा अग्रतीक्ष्णा निर्मलाश्चेति कर्मधारयः, ततस्तैरिति व्याख्येयं, तृतीयाबहुवचनलोपदर्शनादिति, अन्यैश्चेवमादिभिः अशुभैक्रियैः प्रहरणशतैरभिघ्नन्तः अनुबद्धतीव्रवैरा-अविच्छिन्नोत्कटवैरभावाः परस्परं-अन्योऽन्यं वेदनामुदीरयन्ति, नारका एव तिसृभ्यः नरकपृथ्वीभ्यः, परतो नरकपालानां गमनाभावात्, । 'तत्थे तितत्रसपरस्पराभिहननेन वेदनोदीरणेणमुद्गरप्रहारचूर्णितोमुसिण्दिभिः सम्भग्नो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192