Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं-१,
.
३७९
भावः, तथा यमकायिकैः-दक्षिणदिक्खपालदेवनिकायाश्रितैरसुरैरंबादिभिरित्यर्थः त्रासिताउत्पादित भया यमकायिकत्रासितास्ते च शब्दम् आर्तस्वरं कुर्वन्ति भीतास्सन्तः,
'किं ते'त्ति तद्यथा 'अविहाव'त्ति हे अविभाव्य !-अविभावनीयस्वरूप “सामि त्ति हे स्वामिन् ‘भाय'त्ति! हे भ्रातः ‘बप्पत्ति हे बप्प!, हे पितः ! इत्यर्थः, एवं हे तात! 'जियवंति हे जितवन-प्राप्तजयजीवित ! 'मुय'त्ति मुंच 'मे'त्ति मां 'मरामि'त्ति म्रिये, इह च नारकाणां बहुवचनप्रक्रमेऽपियदेकवचनंतदेकापेक्षतज्जात्यपेक्षंछान्दसत्वाद्वेति, यतो दुर्बलो व्याधिपीडितोऽहं 'किं दाणि सित्ति किमिदानीमसि-भवसि?,
___ ‘एवंदारुणो'त्ति एवंप्रकारो दारुणो-रौद्रो निर्दयश्च निघृणश्च मा देहि मे-मम प्रहारान् 'उस्सासेतं मुहुतगं मे देहित्ति उच्छासमुच्छसनमेनं-अधिकृतं एकं वा मुहूर्तकं यावत् मे-मा देहीति प्रसादं कुरुत मा रुष्यत विश्रमामि-विश्रामं करोमि 'गेविजंति ग्रैवेयं ग्रीवाबन्धनं मुञ्च मे–मम यतो 'मरामि त्तिम्रियेतथा गाढं-अत्यर्थं 'तण्हाइउत्तितृष्णार्दितः पिपासितोऽहं 'देह'त्ति दत्त पानीयं-जलमिति नारकेणोक्ते सति नरकपाला यद्भणन्ति तदाह_ 'हंता'इति, यदि त्वं पिपासितस्ततो हंता इंदीति च वाऽऽमन्त्रणे पिब इदं जलं विमलं शीतलं, इतिः एतच्छब्दार्थः, भणन्तीति गम्यते, गृहीत्वा च निरयपालास्तप्तं त्रपुकं 'से' तस्य ददति कलशेनालिष, दष्टवा च तज्जलं प्रवेपिताङ्गोपाङ्गाः-कम्पितसकलगात्राः अश्रुभिः प्रगलभिः-छिन्त्रातृष्णाऽस्माकमित्येवंरूपाणि करुणानि वचनानीति गम्यतेजल्पन्ति विपलायन्ते वेतियोगः, विप्रेक्षमाणा 'दिसोदिसं'तिएकस्यादिशः सकाशादन्यां दिशं, अत्राणाः-अनर्थप्रतिघातवर्जिताअशरणाः-अर्थकारकविरहिता अनाथाः-योगक्षेमकारिविरहिता अबान्धवाः-स्वजनरहिताबन्धुविप्रहीणाः-विद्यमानबन्धवविप्रमुक्ताः, कथञ्चिदेकार्थिका न्यप्येतानि पदानि नदोषाय, अनाथताप्रककर्षप्रतिपादकत्वादिति, विपलायन्ते-विनश्यन्ति च, कथं ? - मृगा इव वेगेन भयोद्विग्ना इति, गृहीत्वा च बलात् हठादित्यर्थः, नारकानिति गम्यते, तेषां चे विपलायमानानां निरनुकम्पा यमकायिका इति योगः,मुखं विघाट्य-विदार्य लोहदण्डै: 'कलकलं'ति कलकलशब्दयोगात् कलकलं पूर्वोक्तंत्रपुकमिह स्मर्यते,ण्हेतिवाक्यालझारे, वदने मुखेक्षिपन्ति,
के इत्याहकेचिद्यमकायिका-अम्बादयः, किंभूता?-हसन्त इति, ततो नारका यत् कुन्ति तदाह-तेन च तप्तत्रपुणा दग्धाः सन्तो रसन्ति च प्रलपंति च, किंभूतानि वचनानीत्याहभीमानि-भयकारीणि विक्खराणि-विकृतशब्दानि तथारुदन्तिच करुणकानि-कारुण्यकारीणि, कइवेत्याह-पारापता इव, एवमित्येवंप्रकारो निर्घोषः श्रूयतेइतिसम्बन्धः,प्रलपितं-अनर्थभाषणं विलापः-आर्त्तखरकरणंताभ्यांकरुणो यः स तथा, तथाऽऽक्रन्दितं-ध्वनिविशेषकरणंबहु-प्रभूतं 'रुन्नं'ति अश्रुविमोचनं रुदितं-आराटीमोचनं एतेषामेतानि वा शब्दो यत्र स तथा, तथा परिदेविताश्च-विलपिताः, वाचनान्तरे परिवेपिताश्च-प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नारकास्ते तथा तेषां य आरवस्तेन यः सङ्कुलः स तथा,
निसृष्टो-नारकैर्विमुक्त आत्यन्तिको वा तता रसिताः-कृतशब्दा भणिताःकृताव्यक्तवचनाः कुपिता:-कृतकोपाः उत्कूजिताः-कृताव्यक्तमहाध्वनयोये निरयपालाः तेषां यत्तर्जितं-ज्ञासयसि रे पाप !इत्यादि भणितं नारकविषयं 'गिण्ह'त्ति गृहाण क्रम-लङ्घयेत्यर्थः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192