________________
३७२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७
चक्षुर्णाह्यान्, कानेवंविधानित्याह-त्रसकायः-त्रसनामकर्मोदयवर्तिजीवराशिस्तत्र भवास्त्रसकायिकाः तान्, कियत इत्याह-असङ्ख्यातान्, तथास्थावरकायांश्च-सूक्ष्माश्च बादराश्च तत्तन्नामकर्मोदयवर्तिनः, प्रत्येकशरीरमिति नामकर्मविशेषो येषां ते प्रत्येकशरीरनामानस्ते च साधारणाश्च-साधारणशरीरनामकर्मोदयवर्त्तिन इति द्वन्द्वोऽतस्तान्,
कियतः ?-अनन्तान् साधारणानेव, शेषस्थावराणामसंख्येयत्वात्, जीवानिति योगः, किमिति इत्याह-अन्ति, किम्भूतान्? अविजानतश्चस्ववधं, परिजानतश्च-सुखदुःखैरनुभवतः एकेन्द्रियान्, अथवा स्ववधमजानतः एकेन्द्रियान् तमेव परिजानतस्त्रसानिति जीवान्-जन्तून् एभिर्विविधैः कारणैः-प्रयोजनैः, किंते'त्ति किंतत्तद्यथेतिवा, कर्षणकृषिः पुष्करिणी-पुष्करवती चतुष्कोणा वा वापी निष्पुष्करा वृत्ता वा 'वप्पिण'त्ति केदारः कूपसरस्तडागाः प्रतीताः चितिःभित्त्यादेश्चयनं मृतकदहनार्थंदारुविन्यासोवा वेदिः-वितर्दिका खातिका-परिखाआरामो-वाटिका
विहारो-बौद्धाद्याश्रयः स्तूपः-चितिविशेषः प्राकारः-शालं द्वारं-प्रतीतंगोपुरं-प्रतोली कपाट इत्यन्ये अट्टालकः-प्राकारोपरिवत्याश्रयविशेषः चरिकाः-नगरप्राकारयोरन्तरेऽष्टहस्तप्रमाणो मार्गः सेतुः-मार्गविशेषः पालिर्वा सङ्कङ्कमो-विषमोत्तरणमार्गःप्रासादो-नरेन्द्राश्रय; विकल्पाः-तभेदा भवनानि-चतुःशालादीनि गृहाणि-सामान्यानि शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः चैत्यानि-प्रतिमाः देवकुलानि-सशिखरदेवप्रासादाःचित्रसभाः-चित्रकर्मवन्मण्डपाः प्रपा-जलदानस्थानं आयतनं-देवायतनं आवसथ;परिव्राजकाश्रयः भूमिगृहं प्रतीतं मण्डपः-छायाद्यर्थः पटादिमय आश्रयविशेषः एतेषां द्वन्द्वस्तत एतेषां कृते-निमित्ते पृथिवीं हिसंति इति सम्बन्धः,
भाजनानि-अमत्राणि सौवर्णादीनि भाण्डानि-तान्येव मृन्मयानि क्रयाणकानि वा लवणादीनि उपकरणानि-उदूखलादीनि एषांसमाहारद्वन्द्वः ततस्तस्य विविधस्य चाय-हेतवे पृथिवीं--पृथ्वीकायिकान् हिंसन्ति मदन्बुद्धिकाः,तथा जलं च-अकायिकांश्च हिंसंतीति वर्तते, मज्जनकं-स्नानं पानं भोजनं च प्रतीतं वस्त्रधावनं-वासःक्षालनं शौचः-आचमनमेतदादिभिः कारणैरिति प्रक्रमः, तथा पचनं पाचनं च ओदनादेः जलवणन्ति-स्वतः परतो वाऽग्नेरुद्दीपनं विदर्शनं-अन्धकास्थवस्तुप्रकाशनं एगैः कारणैः चः समुच्चये अग्नि हिंसंति,
तथा सूर्ण प्रतीतं व्यञ्जनं-वायूदीरकं तालवृन्तं-तदेव द्विपुटादि 'पेहुणं ति मयूराङ्गं मुखं-आस्यं करतलं-हस्तः सर्गपत्रं-वृक्षविशेषपर्णं वस्त्रं-प्रतीतं, एतदादिभिर्वातोदीरणवस्तुभिरनिलं-वायुं हिंसन्तीति,
तथा अगारंगेहं परियारो'त्ति परिचारो-वृत्तिः खग्रादिकोशोवा भक्ष्याणि-मोदकादीनि 'खरविशदमभ्यवहार्यं भक्ष्य मिति वचनात् भोजनानि-ओदनादीनि शयनानि शय्याः आसनानि-विष्टराणि फलकानि-अवष्टम्भनद्यूतादिनिमित्तानि मुशलान्युदूखलाश्च प्रसिद्धाः ततानि-वीणादीनि विततानि-पटहादीन्यातोद्यानि-वाद्यानिवहनानि-यानपात्रणिवाहनानिशकटादीनि मण्डपाः प्रतीताः विविधभवनानि-चतुःशालादीनि तोरणानि प्रतीतानि विटङ्क:-कपोतपाली देवकुलंप्रतीतंजालकंछिद्रान्वितोगृहावयवविशेषःअर्द्धचन्द्रः-सोपानविशेषः निर्वृहकं-द्वारोपरितनपाविनिर्गतदारु चन्द्रशालिका-प्रासादोपरितनशाला वेदिका-वितर्दिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org