________________
द्वारं - 9, अध्ययनं- 9,
३७३
निःश्रेणि:- अवतरणी द्रोणी-नौः चङ्गेरी - महती काष्ठपात्री बृहत्पट्टलिका वा कीलाः- शङ्कयः मेढका:- मुण्डकाः सभा - आस्थायिका प्रपा- जलदानमण्डप आवसथः-परिव्राजकाश्रयः
गन्धाः- चूर्णविशेषाः माल्यं - कुसुममनुलेपनं-विलेपनं अम्बराणि - वस्त्राणि यूपो युगं लाङ्गलं - शीरं 'मतिय'त्ति मतिकं येन कृष्ट्वा क्षेत्रं मृद्यते कुलिकं हलप्रकारः स्यन्दनो- रथविशेषो, यतो द्विविधो रथः साङ्ग्रामिको देवयानरथश्च तत्र साङ्ग्रामिकस्य कटीप्रमाणा वेदिका भवति, शिबिका - पुरुषसहस्रवाहनीयः कूटाकार शिखराच्छादितो जम्पानविशेषः रथः - प्रसिद्धः शकटं- मन्त्री यानं तद्विशेषः युग्यं - गोल्लदेशप्रसिद्धो दिहस्तप्रमाणो वेदिकोपशोभितो जम्पानविशेष एव अट्टालक :- प्राकारोपरिवर्त्ती आश्रयविशेषः चरिकानगरप्राकारान्तरालेऽष्टहस्तप्रमाणो मार्गः द्वारं-परतीतं गोपुरं पुरद्वारं परिधा - अर्गला यन्त्राणि - अरघट्टादि यन्त्राणि शूलिका - वध्यप्रोतनकाष्ठं पाठान्तरे शूलकः - कीलकविशेषः 'लउड' त्ति लकुटः मुशुण्ढिः - प्रहरणविशेषः शतघ्नीमहती यष्टिः बहूनि च प्रहरणानि -करवालादीनि आवरणानि - स्फुरकादीनि उपकरश्चगृहोपकरणं मञ्चकादि, तत एतेषां द्वन्द्वः,
ततश्चैतेषां कृते - अधीय अन्यैश्च एवमादिभिर्बहुभिः कारणशतैर्हिंसन्ति तरुगणानिति, तथा भणिताऽभणितांश्चैवपादिकान् - एवंप्रकारान् सत्त्वान् सत्त्वपरिवर्जितान् उपघ्नन्ति ध्ढाश्च मूढाश्च ते दारुणमतयश्चेति तथाविधक्रोधान्मानात् मायाया लोभात् हास्यरत्यरतिशोकात्, इह पञ्चमीलोपो दृश्यः, वेदार्थाश्च वेदार्थमनुष्ठानं जीवश्च जीवितं जीतं वा कल्पतः, धर्म्मश्चार्थश्च कामश्चेत्येतेषां हेतोः कारणात् स्ववशाः - स्वतन्त्रा अवशाः -- तदितरे अर्थाय अनर्थाय च त्रसप्राणांश्च स्थावरांश्च हिंसन्ति मन्दबुद्धयः, एतदेव प्रपञ्चत आह
स्ववशा घ्नन्ति अवशा घ्नन्ति स्ववशा अवशाश्चेत्येवं 'दुहउ 'त्ति द्विधा ध्नन्ति, एवं अर्थायेत्यादि आलापकत्रयं, एवं हास्यवैररतिभिरालापकचतुष्टयं, एवं क्रुद्धलुब्धमुग्धाः अर्थधर्मकामाश्चेति ॥ तदेवं यथा च कृत इति प्रतिपादितमधुना 'फलप्रधानाः क्रिया' इति न्यायात् फलद्वारं द्वारगाथायाः कर्तृद्वारायागुपन्यस्तमप्युल्लङ्घय 'कर्त्रधीना किये 'ति न्यायात्कर्तुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि च कुर्वन्ति पापाः प्राणिवधमित्येतदाह-
मू. (८) कयरे ते ?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्प ओगतप्पगलजालवीरल्लगायसीदब्भवग्गुराकूडछेलिहत्था हरिएसा साउणिया य वीदंसगपासहत्था वनचरगा लुद्धयमहुघातपोतघाया एणीयारा सरदहदीहि अतलागपल्ललपरिगालणमलणसोत्तबंधणसलिलासयसोसगा विसगरस्स य दायगा उत्तवणवल्लर- दवग्गिगिद्दयपलीवका कूरकम्मकारी इमे य बहवे मिलक्खुजाती, के ते ?,
सकजवणसबरबब्बरगायमुरुंडोदभडगतित्तियपक्कणियकुलक्खगोडसीहलपारसकोचंधदविलबिल्ललपुलिंदअरो सडोबपोक्कणगंधहारगबहलीयजल्लरोममासबउसमलया चुंचुया य चूलिया कोंकणगा मेतपण्डवमालवमहुर आभासिया अणक्कचीणल्हासियखसखासिया रमरहट्टमुट्ठि अगार बडोबिलगकुहणकेकयहूणरोमगरुरुमरुगा चिलायविसयवासी यपावमतिणो जलयरथलयरसणष्फतोरगखहचरसंडासतोंडजीवोवग्धायजीवी सण्णी य असण्णिणो पत्ता असुभलेस्सपरिणामा एते अन्ने य एवमादी करेति पाणातिवायकरणं पावा पावाभिगमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org