________________
४६६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे गाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथम: अत्यन्तासारत्वात्, यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीय: परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वसमय-परसमयज्ञ: क्रियादिगुणयुक्तश्च स तृतीय: सारतरत्वात्, यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्प: स चतुर्थः सारतमत्वात् सुधर्मादिवदिति 5 १७ ।
सालो नामैक: सालाभिधानवृक्षजातियुक्तत्वात्, सालस्यैव पर्याया धर्मा बहलच्छायत्वा-ऽऽसेव्यत्वादयो यस्य स: सालपर्याय इत्येकः, सालो नामैक इति तथैव एरण्डस्येव पर्याया धर्मा अबहलच्छायत्वा-ऽसेव्यत्वादयो यस्य स एरण्डपर्याय
इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो 10 बहलच्छायत्वादिधर्मयुक्तत्वादिति तृतीयः, एरण्डो नामैकस्तथैव एरण्डपर्याय:
अबहलच्छायत्वाद्येरण्डधर्मयुक्तत्वादिति चतुर्थः १८, आचार्यस्तु साल इव सालः, यथा हि साल: जातिमानेवमाचार्योऽपि य: सत्कुल: सद्गुरुकुलश्च स साल एवोच्यते, तथा सालपर्याय: सालधा, यथा हि साल: सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयश:प्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा सालो नामैक इति 15 तथैव, एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीय:, एवमितरावपीति १९, तथा सालस्तथैव,
साल एव परिवारः परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०, आचार्यस्तु साल इव सालो गुरुकुल-श्रुतादिभिरुत्तमत्वात्, सालपरिवारः सालकल्पमहानुभावसाधुपरिकरत्वात्, तथा एरण्डपरिवार: एरण्डकल्पनिर्गुणसाधुपरिकरत्वात्,
एवमेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञानः। उक्तचतुर्भङ्ग्या एव भावनार्थं 20 सालदुमेत्यादि गाथाचतुष्कं व्यक्तम्, नवरं मङ्गुलम् असुन्दरम् २१ ।।
___ अनुश्रोतसा चरतीत्यनुश्रोतश्चारी नद्यादिप्रवाहगामी, एवमन्ये त्रय: २२, एवं भिक्षाकः साधुः, यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षते सोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्चारी प्रथमः, यस्तूत्क्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयः, यस्तु क्षेत्रान्तेषु भिक्षते स तृतीय:, क्षेत्रमध्ये चतुर्थ: २३ । १. शालो जे१ । एवमग्रेऽपि सर्वत्र ॥ २. °च्छायात्वसेव्य खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org