Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 521
________________ १०६ प्रथमं परिशिष्टम्- टिप्पनानि आभिग्रहिकस्यासत्यभावे अन्यतरस्तस्यैवाचार्यस्य रजोहरणेन और्णिकेन वा पादप्रोञ्छकेनान्यभुक्तेन पादान् पुंसयति । यदि पुनरव्यापृता अपि निष्कारणमाचार्यस्य पादानप्रमार्जयते तदा मासलघु । अथात्मीयेन रजोहरणेन पादप्रोञ्छनेन वा अन्यपादप्रमार्जनतः परिभुक्तेन प्रमार्जयन्ति, तदापि मासलघु। यदि बहिर्वसतेः सागारिकस्तिष्ठतीत्याचार्यस्य पादा न प्रस्फोटितास्तर्हि वसतेरन्तः प्रविष्टस्य प्रस्फोटनीयास्तत्रायं विधिः- विपुलाए अपरिभोगे अप्पणउवासए व चिट्ठस्स । एमेव य भिक्खुस्स वि नवरिं बाहिं चिरयरं तु ॥६।२५२७॥ यदि विपुला वसतिस्तत्र तस्यां विपुलायां वसतावपरिभोगे अवकाशे आचार्येण स्थित्वा पादाः प्रस्फोटयितव्याः । अथ संकटा वसतिस्तर्हि आचार्यस्य आत्मीयो वेण्टकाद्यवकाशस्तत्र ऐर्यापथिकी प्रतिक्रम्योपविष्टस्य पादाः प्रमार्जनीयास्ते च कुशलेन साधुना तथा प्रमार्जनीया यथाऽन्ये साधवो धूल्या न भ्रियन्ते यथा आचार्यस्योक्तमेवं भिक्षोरपि द्रष्टव्यम्, नवरं यदि बहिर्वसतेः सागरिकस्तिष्ठति। ततश्चिरतरमपि कालं प्रतीक्षेत, यावच्चलः सागारिको व्यतिक्रामति। यदि पुनर्भिक्षुः वसतेर्बहिः सागारिकाभावेऽपि पादावप्रस्फोट्य वसतेरन्तः प्रविशति तदा तस्य प्रायश्चित्तं मासलघु ॥ तिण्हुण्हभावियस्सा पडिच्छमाणस्स मुच्छमादीया । खद्धादियणगिलाणे सुत्तत्थविराहणा चेव ॥६।२५३३॥ आचार्यः स्वरूपत उष्णेनाभावितः क्वचित् कदाचित् प्रयोजनवशतो बहिर्निर्गमनात् ततः कुलादिकार्येषु निर्गतस्तृष्णाभिभूतो वसतिमागतोऽपि यदि सागारिकमपगच्छन्तं यावत्प्रतीक्षते, ततः प्रतीक्षमाणस्य तृष्णया उष्णेन च तापितस्य मूर्छादयो भवन्ति | आदि- शब्दादागाढापरितापनादिपरिग्रहस्तथा वसतिं प्रविष्टोऽतीव तृष्णाभिभूतः खद्धस्य प्रचुरस्य पानीयस्यादानं ग्रहणं कुर्यात् । प्रचुर पानीयं पिबेदित्यर्थः । ततो भक्ताजीर्णतया ग्लानो भवेत्, तस्मिंश्च ग्लाने सूत्रार्थपरिहाणिर्विराधना च तस्याचार्यस्य स्यात् । ग्लानत्वेनाचार्यो म्रियेतेति भावः । अथवा सूत्रार्थपरिहाण्या अजानतां साधूनां ज्ञानादिविराधना स्यात् । सूत्रार्थाभावतोऽजानन्तः साधवो ज्ञानादिविराधनां कुर्युरिति भावः ॥८०॥ आचार्य आह- 'अणेगबहुनिग्गमणे अन्भुट्ठण भाविया य हिंडंता । दसविहवेयावच्चे सग्गाम बहिं च वायामो ॥६।२५३९॥ सीउण्हसहा भिक्खु न य हाणी वायणादिया तेसिं । गुरुणो पुण ते नत्थी तेण पमजंतो खेयण्णो ।।६।२५४०॥ अनेकैः कारणैः बहून् वारान् निर्गमनम् अनेक-बहुनिर्गमनं तस्मिन्, तथा गुर्वादीनामभ्युत्थाने आसनप्रदानादौ च, तथा भिक्षार्थं हिण्डमाना भाविता व्यायामितशरीराः, यदुक्तमनैकैः बहुवारं निर्गमनम्, तत्र कारणान्याह- दशविधवैयावृत्यनिमित्तम् । स्वग्रामे बहिः परग्रामेऽनेकवारमनेकधा व्यायामोऽभवत् । तथा शीतोष्णसहा भिक्षवो न च तेषां भिक्षूणां वाचनादिका वाचनादिविषया हानिः, गुरोः पुनस्तेऽनेकबहुनिर्गमनादयो न सन्ति । ततस्तृष्णाद्यध्यासितुमसहिष्णव आचार्या वसतेर्बहिः सागारिके तिष्ठन्ति लघुवसतेरन्तः प्रविशन्ति,। ततः खेदज्ञेन कुशलेन पादान् प्रमार्जापयन्ति ॥" - व्यवहार० मलय० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579