Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 519
________________ १०४ प्रथमं परिशिष्टम्- टिप्पनानि अथोन्मादप्ररूपणार्थं भाष्यकारः प्राह- उम्मातो खलु दुविधो, जक्खाएसो य मोहणिजो य । जक्खाएसो वुत्तो, मोहेण इमं तु वोच्छामि ॥६२६३॥ व्या० उन्मादः खलु निश्चितं द्विविधः द्विप्रकारः । तद्यथा- यक्षावेशहेतुको यक्षावेशः, कार्ये कारणोपचारात् । एवं मोहनीयकर्मोदयहेतुको मोहनीयः । चशब्दौ परस्परसमुच्चयार्थी स्वगतानेकभेदसंसूचकौ वा । तत्र यः यक्षावेश: यक्षावेशहेतुकः सोऽनन्तरसूत्रे उक्तः । यस्तु मोहेन मोहनीयोदयेन; मोहनीयं नामयेनात्मा मुह्यति, तच्च ज्ञानावरणं मोहनीयं वा द्रष्टव्यम्, द्वाभ्यामप्यात्मनो विपर्यासापादनात्, तेनोत्तरत्र 'अहव पित्तमुच्छाए' इत्याधुच्यमानं न विरोधभाक्; इमो त्ति अयम्- अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षीभूत इव तमेवेदानीं वक्ष्यामि ॥६२६३॥ प्रतिज्ञातं निर्वाहयति- रूवंगं दट्टणं, उम्मातो अहव पित्तमुच्छाए । तद्दायणा णिवाते, पित्तम्मि य सक्करादीणि ॥६२६४॥ व्या० रूपं च नटादेराकृतिः अङ्गं च गुह्याङ्गं रूपाङ्गं तद् दृष्ट्वा कस्या अप्युन्मादो भवेत् । अथवा पित्तमूर्च्छया पित्तोद्रेकेण उपलक्षणत्वाद् वातोद्रेकवशतो वा स्यादुन्मादः । तत्र रूपाङ्गं दृष्ट्वा यस्या उन्मादः सञ्जातस्तस्यास्तस्य रूपाङ्गस्य विरूपावस्थां प्राप्तस्य दर्शना कर्तव्या । या तु वातेनोन्मादं प्राप्ता सा निवाते स्थापनीया। उपलक्षणमिदम्, तेन तैलादिना शरीरस्याभ्यङ्गो घृतपायनं च तस्याः क्रियते। पित्ते पित्तवशादुन्मत्तीभूतायाः शर्करा-क्षीरादीनि दातव्यानि ॥६२६४।। तत्रोपसर्गप्रतिपादनार्थमाह- तिविहे य उवस्सग्गे, दिव्वे माणुस्सए तिरिक्खे य । दिव्वे य पुव्वभणिए, माणुस्से आभिओग्गे य ॥६२६९॥ व्या० त्रिविधः खलु परसमुत्थ उपसर्गः । तद्यथादैवो मानुष्यकस्तैरश्चश्च । तत्र दैवः देवकृतः पूर्वम् अनन्तरसूत्रस्याधस्ताद् भणितः, मानुष्यः पुनः मनुष्यकृतः आभियोग्य: विद्याद्यभियोगजनितस्तावद् भण्यते ॥६२६९॥ विजाए मंतेण व, चुण्णेण व जोतिया अणप्पवसा । अणुसासणा लिहावण, खमए मधुरा तिरिक्खाती ॥६२७०॥ व्या० विद्यया वा मन्त्रेण वा चूर्णेन वा योजिता सम्बन्धिता सती काचिदनात्मवशा भवेत् तत्र अनुशासना इति येन रूपलुब्धेन विद्यादि प्रयोजितं तस्यानुशिष्टिः क्रियते, यथा- एषा तपस्विनी महासती, न वर्तते तव तां प्रति ईदृशं कर्तुम्, एवंकरणे हि प्रभूततरपापोचयसम्भव इत्यादि । अथैवमनुशिष्टोऽपि न निवर्तते तर्हि तस्य तां प्रतिविद्यया विद्वेषणमुत्पाद्यते। अथ नास्ति तादृशी प्रतिविद्या ततः लिहावण त्ति तस्य सागारिकं विद्याप्रयोगतस्तस्याः पुरत आलेखाप्यते येन सा तद् दृष्ट्वा तस्य सागारिकमिदमिति बीभत्सम्' इति जानाना विरागमुपपद्यते। खमए महुरा इति मथुरायां श्रमणीप्रभृतीनां बोधिकस्तेनकृत उपसर्गोऽभवत् तं क्षपको निवारितवान्, एषोऽपि मानुष उपसर्गः । तैरश्चमाह- तिरिक्खाइ त्ति तिर्यञ्चो ग्रामेयका आरण्यका वा श्रमणीनामुपसर्गान् कुर्वन्ति ते यथाशक्ति निराकर्तव्याः ॥६२७०।। अस्य सम्बन्धमाह- अहिगरणम्मि कयम्मिं, खामिय समुपट्टिताए पच्छित्तं । तप्पढमताए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579