Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 552
________________ प्रथमं परिशिष्टम्- टिप्पनानि १३७ तेणं मंथिज्जए जहा दधियं । दधितुल्लो खलु कप्पो, मंथिजति कोकुआदीहिं ॥६३१६॥ द्रव्यपरिमन्थो मन्थिकः, मन्थान इत्यर्थः, तेन मन्थानेन यथा दधि मथ्यते तथा दधितुल्यः खलु कल्पः साधुसमाचारः कौकुचिकादिभिः प्रकारैर्मथ्यते, विनाश्यत इत्यर्थः ॥६३१६॥" - बृहत्कल्पटीका। [पृ०६३८] “प्रतिज्ञातमेव करोति- ठाणे सरीर भासा, तिविधो पुण कुक्कुओ समासेणं। चलणे देहे पत्थर, सविगार कहकहे लहुओ ॥६३१९॥ स्थाने स्थानविषयः शरीरविषयो भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः । तत्र स्थानकौकुचिको यश्चलनम्- अभीक्ष्णं भ्रमणं करोति । देहः- शरीरं तद्विषयः कौकुचिको यः प्रस्तरान् हस्तादिना क्षिपति । यस्तु सविकारं परस्य हास्योत्पादकं भाषते, कहक्कहं वा महता शब्देन हसति स भाषाकौकुचिकः । एतेषु त्रिष्वपि प्रत्येकं मासलघु ॥६३१९॥ अथ शरीरकौकुचिकमाह- कर-गोफण-धणु-पादादिएहिँ उच्छुभति पत्थरादीए । भमुगादाढिग-थण-पुतविकंपणं णदृवाइत्तं ॥६३२३॥ कर-गोफणा-धनुः-पादादिभिः प्रस्तरादीन् य उत्प्राबल्येन क्षिपति स शरीरकौकुचिकः । भ्रू-दाढिका-स्तन-पुतानां विकम्पनं-विविधम्-अनेकप्रकारैः कम्पनं यत् करोति तद् नृत्यपातित्वमुच्यते, नर्तकीत्वमित्यर्थः । एतेन नट्टिया व त्ति पदं व्याख्यातं प्रतिपत्तव्यम् ॥६३२३॥ ___अथ भाषाकौकुचिकमाह- छेलिय मुहवाइत्ते, जंपति य तहा जहा परो हसति । कुणइ य रुए बहुविधे, वग्घाडिय-देसभासाए ॥६३२४॥ यः सेण्टितं मुखवादित्रं वा करोति, यथा वा वचनं जल्पति यथा परो हसति, बहुविधानि वा मयूर-हंस-कोकिलादीनां जीवानां रुतानि करोति, वग्घाडिका:- उद्घट्टककारिणीः देशभाषा वा-मालव-महाराष्ट्रादिदेशप्रसिद्धास्तादृशीर्भाषा भाषते याभिः सर्वेषामपि हास्यमुपजायते, एष भाषाकौकुचिकः ॥६३२४॥ ___सम्प्रति मौखरिकमाह- मुहरिस्स गोण्णणामं, आवहति अरिं मुहेण भासंतो । लहुगो य होति मासो, आणादि विराहणा दुविहा ॥६३२७॥ मौखरिकस्य गौणं गुणनिष्पंन्न नाम मुखेन प्रभूतभाषणादिमुखदोषेण भाषमाणः अरिं वैरिणम् आवहति करोतीति मौखरिकः । तस्यैवं मौखरिकत्वं कुर्वाणस्य लघुको मासः आज्ञादयश्च दोषाः । विराधना च संयमा-ऽऽत्मविषया द्विविधा। तत्र संयमविराधना मौखरिकस्य सत्यव्रतपरिमन्थुतया सुप्रतीता ॥६३२७॥ ___ इदमेव भावयति- आलोएंतो वच्चति, भादीणि व कहेति वा धम्मं । परियट्टणाऽणुपेहण, न यावि पंथम्मि उवउत्तो ॥६३३०॥ स्तूपादीनि स्तूप-देवकुला-ऽऽरामादीनि आलोकमानो धर्म वा कथयन् परिवर्तनामनुप्रेक्षां वा कुर्वाणो व्रजति । यद्वा सामान्येन न च नैवोपयुक्तः पथि व्रजति एष चक्षुर्लोल उच्यते ॥६३३०॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579