Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 550
________________ प्रथमं परिशिष्टम्- टिप्पनानि १३५ पावा णायव्वा, तेसिं च परूवणा इणमो ॥६११८॥ क्षामितानि वचसा मिथ्यादुष्कृतप्रदानेन शमितानि, वोसवितानि विविधमनेकधा मनसा व्युत्सृष्टानि, क्षामितानि च तानि व्युत्सृष्टानि चेति क्षामित-व्युत्सृष्टानि । एवंविधान्यधिकरणानि ये भूय उदीरयन्ति ते पापा: साधुधर्मबाह्या ज्ञातव्याः। तेषां च इयं प्ररूपणा ॥६११८॥" - बृहत्कल्पटीका । "खामित विउसविताइं, अधिकरणाइं तु जे पुणोप्पाए । ते पावा णातव्वा, तेसिं तु परूवणा इणमो ॥१८१८॥ पावा ण साधुधर्मे व्यवस्थिता इत्यर्थः । कहं उप्पाएति ? केति साहुणो पुव्वकलहिता तम्मि य खामिय विओसविते। तत्थेगो भणति- अहं णाम तुमे तदा एवं भणितो आसि ण जुत्तं तुज्झ । इयरो पडिभणाति- अहं पि ते किं ण भणितो? इतरो भणातिइयाणिं ते किं मुयामि ? एवं उप्पाएति स उप्पायगो ॥१८१८॥" - निशीथ० चूर्णिः। [पृ०६३५] तत्र दुर्दुरविषयं तावदाह- ओमो चोइजंतो, दुपहियादीसु संपसारेति । अहमवि णं चोदिस्सं, न य लब्भति तारिसं छेड्डे ॥६१३५॥ अवमः अवमरात्निको रात्निकेन दुःप्रत्युपेक्षितादिषु स्खलितेषु भूयो भूयो नोद्यमानः सम्प्रसारयति मनसि पर्यालोचयति- अहमपि णं एनं रात्निकं नोदयिष्यामि । एवं पर्यालोच्य प्रयत्नेन गवेषयन्नपि तादृशं छिद्रं रात्निकस्य न लभते ॥६१३५॥ ____ अन्ने धातिए दडुरम्मि दट्ठ चलणं कतं ओमो । उद्दवितो एस तुमे, ण मि त्ति बितियं पि ते णत्थी ॥६१३६॥ अन्यदा च भिक्षादिपर्यटने अन्येन केनापि दर्दुरे घातिते रात्निकेन च तस्योपरि चलनं पादं कृतं दृष्ट्वाऽवमो ब्रवीति- एष दर्दुरस्त्वयाऽपद्रावितः। रात्निको वक्ति- न मयाऽपद्रावितः । अवमः प्राह- द्वितीयमपि मृषावादव्रतं ते तव नास्ति ॥६१३६।। सम्प्रति मृषावादा-ऽदत्तादानयोः प्रस्तारमाह- मोसम्मि संखडीए, मोयगगहणं अदत्तदाणम्मि। आरोवणपत्थारो, तं चेव इमं तु णाणत्तं ॥६१४२॥ मृषावादे सखडीविषयं निदर्शनम् । अदत्तादाने मोदकग्रहणम् । एतयोर्द्वयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः । इदं तु नानात्वं विशेषः ॥६१४२॥ दीण-कलुणेहि जायति, पडिसिद्धो विसति एसणं हणति । जंपति मुहप्पियाणि य, जोग-तिगिच्छा-निमित्ताई ॥६१४३॥ कस्यामपि सङ्खड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्- व्रजामः सखड्याम्, इदानीं भोजनकालः सम्भाव्यते । अवमो भणति- प्रतिषिद्धोऽहं न व्रजामि । ततोऽसौ निवृत्याऽऽचार्यायेदमालोचयति, यथा- अयं दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां च हन्ति प्रेरयति, अथवा एष गृहं प्रविष्टो मुखप्रियाणि योग-चिकित्सा-निमित्तानि जल्पति । एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति ॥६१४३॥" - बृहत्कल्पटीका । [पृ०६३६] “एवमुक्त्वा त्वरितं वसतावागत्य मैथुनेऽभ्याख्यानं दातुं यथा आलोचयति तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579