Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
प्रथमं परिशिष्टम् - टिप्पनानि
पप्पडगपायए घायए य फुडिए तहेव बोधव्वे । काले खारे य तहा, 1 लोले तह लोलपच्छे य ॥३०॥ व्या० पर्पटकपाचकः ४२ घातकः ४३ च तथैव स्फुटितः ४४ बोद्धव्यः । कालः ४५ क्षारश्च ४६ तथा लोलः ४७ तथा लोलपाक्षश्च ४८ । अत्र च गाथापञ्चके चादयः शब्दाः क्वचिद्गाथापूरणफलाः क्वचित्समुच्चयार्थाश्च व्याख्येया इति ॥३०॥
सप्पविसप्पे मुच्छियपमुच्छिए तह य लोमहरिसे य । खरफरुसअग्गिवेविय, उदड्डए चेव विद्धट्ठे (हड्डे) ॥२७॥ व्या० सर्प १२ विसर्पों १३ मूर्छित १४ प्रमूर्छितौ १५ तथा च लोमहर्षश्च १६ खरपरुष १७ अग्नि १८ वेपिताः १९ उद्दग्धः २० चैव विदग्धः २१ इति ॥ २७॥ “विगए विre मंडलजिब्भे जरए तहेव पज्जरए । अपइट्ठिए य खंडे, पप्फुडिए पावदंडे य ।।२९।। व्या० विगतः ३२ विनयः ३३ मण्डल ३४ जिह्वौ ३५ ज्वरकः ३६ तथैव प्रज्वरकः ३७ अप्रतिष्ठितः ३८ च खण्डः ३९ प्रस्फुटितः ४० पापदण्डः ४१ चेति ॥२९॥” देवेन्द्रनरकेन्द्रप्रकरणटीका ॥
-
[पृ० ६२८] “यथा- मज्झा उत्तरपासे, आवत्ता अवरओ मुणेयव्वा । सिट्ठा दाहिणपासे, पुव्विल्लाओ विभइयव्वा ||३२|| व्या० मध्याः मध्यशब्दोपपदा उत्तरपार्श्वे विलयविलात्मप्रभृतयो नरकावासा आवलिकाप्रविष्टा विज्ञेयाः । त एव आवर्त्ताः आवर्त्तोपपदाः अपरतः' अपरस्यां दिशि मुणितव्याः । तथा शिष्टाः इति शिष्टशब्दोपपदा विलयप्रभृतय एव दक्षिणपार्श्वे, किमुक्तं भवति ?पौरस्त्यात् नरकावाससंघाताद् इच्छन्ति (इत्थं त्रिः ) विभक्तव्याः नामान्यपेक्षाच ( क्ष्याव ) शेषदिग्वर्तिनो विभागवतो विधेया नरकावासाः । इदमुक्तं भवति - पूर्वस्यां विलयो विलात्मा स्तनितः, एवमवशिष्टनामानोऽष्टचत्वारिंशदपि नरका वाच्याः । उत्तरस्यां पुनर्मध्यविलयो मध्यविलात्मा मध्यस्तनित इत्यादि । अपरस्यामावर्त्तविलय आवर्तविलात्मा आवर्तस्तनित इत्यादि । दक्षिणस्यां शिष्टविलयः शिष्टविलात्म शिष्टस्तनित इत्यादीति ॥ ३२॥
१३३
अधुना पङ्कप्रभायाम् - आरे तारे मारे, वच्चे तमए य होति णेयव्वे । खाडखडे य खडखडे, इंदरा थी ||१०|| व्या० आरः १ तारः २ मारः ३ वर्चः ४ तमकश्च ५ भवति ज्ञातव्यः, खाडखडश्च ६ खडखडः ७ 'इन्द्रकनरका ः ' नरकेन्द्रकाश्चतुर्थ्यां नरकपृथिव्याम्। एतदेवान्यत्र किञ्चिद्विशेषेण प्रत्यपादि, तद्यथा- 'आरस्तारश्च मारश्च वर्चस्कस्तमकस्तथा । खण्ड: खडखडः सप्त, स्युश्चतुर्थ्यामितीन्द्रकाः ॥१||' इति ॥१०॥
देवेन्द्रकानेव प्रमाणतोऽभिधित्सुराह - तेरस बारस छ प्पंच चेव चत्तारि चउसु कप्पे । गेवेज्जेसुं तिय तिय, एगो उ अणुत्तरेसु भवे ॥ १२९ ॥ व्या० त्रयोदश सौधर्मेशानयोः प्रथमद्वितीयकल्पयोः समभूमिकयोः । द्वादश सनत्कुमारमाहेन्द्रयोस्तृतीयचतुर्थयोर्देवनिवासयोः समतयाऽवस्थितयोः । षड् ब्रह्मलोके पञ्चमदेवलोके । पञ्च चैव लान्तके षष्ठे । चत्तारि ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579