Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
________________
१४०
प्रथमं परिशिष्टम्- टिप्पनानि पृथिव्यादिरक्षारूपो वा सप्तदशविधः, तं कुर्वन्ति यथावत् पालयन्तीति संयमकरणाः, नन्द्यादिदर्शनात् कर्तरि अनप्रत्ययः, उद्योतकाः तपसा प्रवचनस्योज्ज्वालकाः, ततः संयमकरणाश्च ते उद्योतकाश्चेति विशेषणसमासः । यद्वा सूत्रा-ऽर्थपौरुषीकरणेन संयमकरणमुद्द्योतयन्तीति संयमकरणोद्द्योतकाः । तथा ज्ञान-दर्शन-चारित्रेषु शिष्याणां निष्पादकास्तेषां वा ज्ञानादीनामव्यवच्छित्तिकारकाः, एवंविधाः स्थविरकल्पिका भवन्तीति शेषः । यदा च ते दीर्घायुषो जवाबलपरिक्षीणाश्च भवन्ति तदा वृद्धावासमध्यासते । तत्रैकक्षेत्रे वसन्तोऽपि वसतिदोषैः कालातिक्रान्तादिभिः चशब्दाद् आहारोपधिदोषैश्च विमुक्ताः वर्जिता भवन्ति, न तैर्लिप्यन्त इत्यर्थः ॥६४८५॥" - बृहत्कल्पटीका ।
[पृ०६४२] “सामन्नाउ विसेसो अन्नोऽणन्नो व होज, जइ अण्णो । सो नत्थि खप्पुप्फं पिवऽणण्णो सामन्नमेव तयं ॥३४॥ भो विशेषवादिन् ! सामान्याद् विशेषोऽन्यो वा स्यात्, अनन्यो वा ?, इति विकल्पद्वयम् । यद्याद्यो विकल्पः, तर्हि नास्त्येव विशेषः, निःसामान्यत्वात्, खपुष्पवत्इह यद् यत् सामान्यविनिर्मुक्तं तत् तद् नास्ति, यथा गगनारविन्दम्, सामान्यविरहितश्च विशेषवादिना विशेषोऽभ्युपगम्यते, तस्माद् नास्त्येवाऽयमिति । अथाऽनन्य इति द्वितीयः पक्षः कक्षीक्रियते, हन्त ! तर्हि सामान्यमेवाऽसौ, तदनन्यत्वात्, सामान्यात्मवत्, यद् यस्मादनन्यत् तत् तदेव, यथा सामान्यस्यैवाऽऽत्मा, अनन्यश्च सामान्याद् विशेषः, इति सामान्यमेवाऽयमिति । यदि चाऽतिपक्षपातितया सामान्येऽपि विशेषोपचारः क्रियते, तर्हि न काचित् क्वचित् क्षतिः, न युपचारेणोच्यमानो भेदस्तात्त्विकमेकत्वं बाधितुमलम्, तस्मात् सामान्यमेवाऽस्ति न विशेषः । इति संग्रहणनयमतेन सर्वत्रैकमेव द्रव्यमङ्लम् ॥ इति गाथार्थः ॥३४॥” - विशेषाव० मलधारि०॥
[पृ०६४३] “चउवीसयं मुहुत्ता, सत्त अहोरत्त तहय पन्नरस । मासो अ दो अ चउरो, छम्मासा विरहकालो उ ॥२८१॥ व्या० इह नरकेषु नारकाः सततमेव प्राय उत्पद्यन्ते । केवलं कदाचिदन्तरं भवति । तच्चान्तरं जघन्यतः सर्वासु समस्तासु पृथिवीषु प्रत्येकं भवत्येकः समयः । उत्कर्षतो रत्नप्रभायां पृथिव्यां चतुर्विंशतिर्मुहूर्ता अन्तरम् । शर्कराप्रभायां सप्ताहोरात्राः । वालुकाप्रभायां पञ्चदश । पङ्कप्रभायां मासः । धूमप्रभायां द्वौ मासौ । तमःप्रभायां चत्वारो मासाः । तमस्तमःप्रभायां षण्मासाः ॥२८१॥
सम्प्रति सिद्धिगतिमधिकृत्योपपातविरहकालप्रदर्शनार्थमाह- जहन्नेणेगसमओ, उक्कोसेणं तु हुति छम्मासा । विरहो सिद्धिगईए, उव्वदृणवज्जिआ नियमा ॥३४५॥ व्या० सिद्धिगतौ विरहो जघन्यत एकः समयो भवति, उत्कर्षतः षण्मासाः । सा च सिद्धिगतिर्नियमान्नियमेनोद्वर्तनवर्जिता। न खलु सिद्धास्ततः कदाचनाप्युद्वर्तन्ते, उद्वर्तनहेतूनां कर्मणां निर्मूलकाषं कषितत्वात् । उक्तं चदग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥ [ ] ॥३४५॥" - बृहत्संग्रहणी० मलय० ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579