Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
१३८
प्रथमं परिशिष्टम्- टिप्पनानि ___अस्यैते दोषाः- छक्कायाण विराहण, संजमे आयाएँ कंटगादीया । आवडणे भाणभेदो, खद्धे उड्डाह परिहाणी ॥६३३१॥ अनुपयुक्तस्य गच्छतः संयमे षट्कायानां विराधना भवेत् । आत्मविराधनायां कण्टकादय: पदयोर्लगेयुः, विषमे वा प्रदेशे आपतनं भवेत् तत्र भाजनभेदः । खद्धे च प्रचुरे भक्त-पाने भूमौ छर्दिते उड्डाहो भवेत्- अहो ! बहुभक्षका अमी इति । भाजने च भिन्ने परिहाणि: सूत्रार्थपरिमन्थो भाजनान्तरगवेषणे तत्परिकर्मणायां च भवति ॥६३३१॥" - बृहत्कल्पटीका ।
[पृ०६३९ पं०४] “अथ तिन्तिणिकमाह- तितिणिऍ पुव्व भणिते, इच्छालोभे य उवहिमतिरेगे। लहुओ तिविहं व तहिं, अतिरेगे जे भणिय दोसा ॥६३३२॥ तिन्तिणिक आहारोपधि-शय्याविषयभेदात् त्रिविधः, स च पूर्वं पीठिकायां सप्रपञ्चमुक्त इति नेहोच्यते । स च सुन्दरमाहारादिकं गवेषयन्नेषणासमितेः परिमन्थुर्भवतीति । इच्छालोभस्तु स उच्यते यद् लोभाभिभूतत्वेनोपधिमतिरिक्तं गृह्णाति, तत्र लघुको मासः । त्रिविधं वा तत्र प्रायश्चित्तम् । तद्यथाजघन्ये उपधौ प्रमाणेन गणनया वाऽतिरिक्ते धार्यमाणे पञ्चकम्, मध्यमे मासलघु, उत्कृष्टे चतुर्लघु। ये चातिरिक्ते उपधौ दोषाः पूर्वं तृतीयोद्देशके भणितास्ते द्रष्टव्याः ॥६३३२।।
इदमेव व्याचष्टे- इह-परलोगनिमित्तं, अवि तित्थकरत्तचरिमदेहत्तं । सव्वत्थेसु भगवता, अणिदाणत्तं पसत्थं तु ॥६३३४॥ इहलोकनिमित्तम् ‘इहैव मनुष्यलोकेऽस्य तपसः प्रभावेण चक्रवर्त्यादिभोगानहं प्राप्नुयाम्, इहैव वा भवे विपुलान् भोगानासादयेयम्' इतिरूपम् परलोकनिमित्तंमनुष्यापेक्षया देवभवादिकः परलोकस्तत्र ‘महर्द्धिक इन्द्रसामानिकादिरहं भूयासम्' इत्यादिरूपं सर्वमपि निदानं प्रतिषिद्धम् । किं बहुना ? तीर्थकरत्वेन आर्हन्त्येन युक्तं चरमदेहत्वं मे भवान्तरे भूयात् इत्येतदपि नाशंसनीयम् । कुतः ? इत्याह- सर्वार्थेषु सर्वेष्वपि- ऐहिका-ऽऽमुष्मिकेषु प्रयोजनेषु अभिष्वङ्गविषयेषु भगवताऽनिदानत्वमेव प्रशस्तं श्लाघितम्। तुशब्द एवकारार्थः, स च यथास्थानं योजितः ॥६३३४॥
__ आह- कानि पुनस्तानि चत्वारि षड् वा स्थानानि येषु सामायिकसंयता यथाक्रमं स्थिता अस्थिताश्च ? इति अत्रोच्यते- सिजायरपिंडे या, चाउज्जामे य पुरिसजेठे य । कितिकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा ॥६३६१॥ सिज्जातरपिंडे त्ति ‘सूचनात् सूत्रम्' इति शय्यातरपिण्डस्य परिहरणं चतुर्यामः पुरुषज्येष्ठश्च धर्मः कृतिकर्मणश्च करणम्। एते चत्वारः कल्पाः सामायिकसाधूनामप्यवस्थिताः । तथाहि- सर्वेऽपि मध्यमसाधवो महाविदेहसाधवश्च शय्यातरपिण्डं परिहरन्ति, चतुर्यामं च धर्ममनुपालयन्ति, 'पुरुषज्येष्ठश्च धर्मः' इति कृत्वा तदीया अप्यार्यिकाश्चिरदीक्षिता अपि तद्दिनदीक्षितमपि साधुं वन्दन्ते, कृतिकर्म च यथारात्निकं तेऽपि कुर्वन्ति। अत एते चत्वारः कल्पा अवस्थिताः ॥६३६१॥" - बृहत्कल्पटीका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579