Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 547
________________ प्रथमं परिशिष्टम् - टिप्पनानि " इत्थमिन्द्रकप्ररूपणां प्रतिपाद्य क्रमेण दिक्षु विदिक्षु चावलिकाप्रमाणं प्रमाणतो गणनाप्रमाणतश्च प्रतिपादयन् गाथाद्वयमाह- एगूणपन्नणिरया, सेढी सीमंतगस्स पुव्वेण । उत्तरओ अवरेण य, दाहिणओ चेव बोधव्वा ||१४|| व्या० एकोनपञ्चाशन्निरया श्रेणि: पक्तिः सीमन्तकस्य इति विभक्तिव्यत्ययात् सीमन्तकात् नारकावासात् पूर्वेण पूर्वस्यां दिशि उत्तरतः उत्तरस्यां दिशि अपरेण च अपरस्यां दिशि दक्षिणतश्चैव दक्षिणस्यां च दिशि 'बोद्धव्याः' एकोनपञ्चाशन्निरया प्रत्येकं श्रेणिर्ज्ञातव्या इति ॥१४॥ १३२ अडयालीसं णिरया, सेढी सीमंतगस्स बोधव्वा । पुव्वुत्तरेण णिरया, एवं सेसासु विदिसा ||१५|| व्या० अष्टचत्वारिंशत् निरया: नारकावासाः, किम् ? इत्याह- श्रेणि: पङ्क्तिः सीमन्तकस्य इति सीमन्तकाद् रत्नप्रभाप्रथमप्रस्तटप्रथमनरकावासान्तमवधीकृत्येत्यर्थः, विभक्तिव्यत्ययश्च प्राकृतत्वात्, बोद्धव्याः विज्ञेयाः पूर्वोत्तरेण पूर्वोत्तरस्यां दिशि १ ईशानकोणयित्यर्थः । अतिदेशमाहनिरयाः उक्तलक्षणाः एवम् अनेन प्रकारेणाष्टचत्वारिंशल्लक्षणेन शेषासु उत्तरपश्चिमा २ पश्चिमदक्षिणा ३ दक्षिणपूर्वालक्षणासु ४ विदिक्षु श्रेणयो भवन्ति । अत्र चैकोनपञ्चाशदष्टचत्वारिंशल्लक्षणं प्रमाणप्रमाणम्, प्रत्येकं ताश्चतस्र इति गणनाप्रमाणमवगन्तव्यमिति ||१५|| एवं दिक्षु विदिक्षु च प्रतिप्रस्तटं श्रेणीषु प्रवृत्तासु सर्वपर्यन्तवर्तिनि प्रस्तटे यत्संपन्नं तदाह एक्केको य दिसासुं, मज्झे निरओ य अप्पट्ठाणो । विदिसाणिरयविरहियं, तं पयरं पंचगं जाण ||१६|| व्या० एकैकश्च पृथक् पृथक् एव दिक्षु पूर्वादिषु चतसृष्वपि मध्ये चकारस्य वक्ष्यमाणस्येहाभिसंबन्धान्मध्यभागे पुनश्चतुर्णामपि दिग्वर्त्तिनरकाणां निरयः उक्तरूप एव अप्रतिष्ठानः अप्रतिष्ठाननामा विदिशानिरयविरहितम् विदिग्वर्तिभिर्निरयैः परिहीणं तम् पर्यन्तवर्तिनं प्रतरं प्रस्तटम्, कीदृशम् ? इत्याह- पञ्चकं कालमहाकालादिपञ्चकनरकावासनिष्पन्नं जानीहि अवबुध्यस्वेति ||१६|| संप्रति प्रथमप्रस्तटे चतुर्णां नरकावासानां सीमन्तकाह्वनरकेन्द्रकासन्नवर्तिनां पूर्वादिदिग्गतानां नामानि गाथाद्वयेनाह - सीमंतगप्पभो खलु, णिरओ सीमंतगस्स पुव्वेणं । सीमंतगमज्झिमओ, उत्तरपासे मुणेयव्वो ||२०|| सीमंतावत्तो उण, णिरओ सीमंतगस्स अवरेण । सीमंतयावसिट्ठो, दाहिणपासे मुणेयव्वो ॥ २१ ॥ व्या० सीमन्तकप्रभः सीमन्तकप्रभनामा खलुः वाक्यालङ्कारे निरयो मुणितव्य इतीहापि संबध्यते, कथम् ? इत्याह- सीमन्तकस्य सीमन्तकान्नरकावासात् पूर्वेण पूर्वस्यां दिशि तथा सीमन्तकमध्यमकः सीमन्तकमध्यमकनामा, क्व ? इत्याह- उत्तरपार्श्वे सीमन्तकादेवोत्तरस्यां दिशि मुणितव्य इति ॥ २०॥ सीमन्तकावर्तः पुनः निरयः नरकावासः सीमन्तकस्य सीमन्तकात् अपरेण अपरस्यां दिशि, तथा सीमन्तकावशिष्टः सीमन्तकावशिष्टनामा दक्षिणपार्श्वे दक्षिणस्यां दिशि मुणितव्यः । यदत्र प्रतीतं दिक्क्रमं परित्यज्यान्यथा नरकावासनिर्देशः कृतः स नरकावासानाममङ्गलरूपत्वादुत्क्रम एवोचित इत्यस्यार्थस्य ख्यापनार्थ इति ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579