________________
प्रथमं परिशिष्टम् - टिप्पनानि
" इत्थमिन्द्रकप्ररूपणां प्रतिपाद्य क्रमेण दिक्षु विदिक्षु चावलिकाप्रमाणं प्रमाणतो गणनाप्रमाणतश्च प्रतिपादयन् गाथाद्वयमाह- एगूणपन्नणिरया, सेढी सीमंतगस्स पुव्वेण । उत्तरओ अवरेण य, दाहिणओ चेव बोधव्वा ||१४|| व्या० एकोनपञ्चाशन्निरया श्रेणि: पक्तिः सीमन्तकस्य इति विभक्तिव्यत्ययात् सीमन्तकात् नारकावासात् पूर्वेण पूर्वस्यां दिशि उत्तरतः उत्तरस्यां दिशि अपरेण च अपरस्यां दिशि दक्षिणतश्चैव दक्षिणस्यां च दिशि 'बोद्धव्याः' एकोनपञ्चाशन्निरया प्रत्येकं श्रेणिर्ज्ञातव्या इति ॥१४॥
१३२
अडयालीसं णिरया, सेढी सीमंतगस्स बोधव्वा । पुव्वुत्तरेण णिरया, एवं सेसासु विदिसा ||१५|| व्या० अष्टचत्वारिंशत् निरया: नारकावासाः, किम् ? इत्याह- श्रेणि: पङ्क्तिः सीमन्तकस्य इति सीमन्तकाद् रत्नप्रभाप्रथमप्रस्तटप्रथमनरकावासान्तमवधीकृत्येत्यर्थः, विभक्तिव्यत्ययश्च प्राकृतत्वात्, बोद्धव्याः विज्ञेयाः पूर्वोत्तरेण पूर्वोत्तरस्यां दिशि १ ईशानकोणयित्यर्थः । अतिदेशमाहनिरयाः उक्तलक्षणाः एवम् अनेन प्रकारेणाष्टचत्वारिंशल्लक्षणेन शेषासु उत्तरपश्चिमा २ पश्चिमदक्षिणा ३ दक्षिणपूर्वालक्षणासु ४ विदिक्षु श्रेणयो भवन्ति । अत्र चैकोनपञ्चाशदष्टचत्वारिंशल्लक्षणं प्रमाणप्रमाणम्, प्रत्येकं ताश्चतस्र इति गणनाप्रमाणमवगन्तव्यमिति ||१५|| एवं दिक्षु विदिक्षु च प्रतिप्रस्तटं श्रेणीषु प्रवृत्तासु सर्वपर्यन्तवर्तिनि प्रस्तटे यत्संपन्नं तदाह
एक्केको य दिसासुं, मज्झे निरओ य अप्पट्ठाणो । विदिसाणिरयविरहियं, तं पयरं पंचगं जाण ||१६|| व्या० एकैकश्च पृथक् पृथक् एव दिक्षु पूर्वादिषु चतसृष्वपि मध्ये चकारस्य वक्ष्यमाणस्येहाभिसंबन्धान्मध्यभागे पुनश्चतुर्णामपि दिग्वर्त्तिनरकाणां निरयः उक्तरूप एव अप्रतिष्ठानः अप्रतिष्ठाननामा विदिशानिरयविरहितम् विदिग्वर्तिभिर्निरयैः परिहीणं तम् पर्यन्तवर्तिनं प्रतरं प्रस्तटम्, कीदृशम् ? इत्याह- पञ्चकं कालमहाकालादिपञ्चकनरकावासनिष्पन्नं जानीहि अवबुध्यस्वेति ||१६||
संप्रति प्रथमप्रस्तटे चतुर्णां नरकावासानां सीमन्तकाह्वनरकेन्द्रकासन्नवर्तिनां पूर्वादिदिग्गतानां नामानि गाथाद्वयेनाह - सीमंतगप्पभो खलु, णिरओ सीमंतगस्स पुव्वेणं । सीमंतगमज्झिमओ, उत्तरपासे मुणेयव्वो ||२०|| सीमंतावत्तो उण, णिरओ सीमंतगस्स अवरेण । सीमंतयावसिट्ठो, दाहिणपासे मुणेयव्वो ॥ २१ ॥ व्या० सीमन्तकप्रभः सीमन्तकप्रभनामा खलुः वाक्यालङ्कारे निरयो मुणितव्य इतीहापि संबध्यते, कथम् ? इत्याह- सीमन्तकस्य सीमन्तकान्नरकावासात् पूर्वेण पूर्वस्यां दिशि तथा सीमन्तकमध्यमकः सीमन्तकमध्यमकनामा, क्व ? इत्याह- उत्तरपार्श्वे सीमन्तकादेवोत्तरस्यां दिशि मुणितव्य इति ॥ २०॥
सीमन्तकावर्तः पुनः निरयः नरकावासः सीमन्तकस्य सीमन्तकात् अपरेण अपरस्यां दिशि, तथा सीमन्तकावशिष्टः सीमन्तकावशिष्टनामा दक्षिणपार्श्वे दक्षिणस्यां दिशि मुणितव्यः । यदत्र प्रतीतं दिक्क्रमं परित्यज्यान्यथा नरकावासनिर्देशः कृतः स नरकावासानाममङ्गलरूपत्वादुत्क्रम एवोचित इत्यस्यार्थस्य ख्यापनार्थ इति ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org