________________
प्रथमं परिशिष्टम्- टिप्पनानि
१३१
इति प्रागप्युक्तप्रायम् । इत्यलमतिचर्चितेन ॥ इति गाथार्थः ॥ ३१० ॥" - विशेषाव० मलधारि० ॥
[पृ० ६२४] " अतो विनयोपचारार्थं कृतिकर्म क्रियत इति स्थितम् । आह - विनय इति कः शब्दार्थ इति, उच्यते - जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमुक्खाए । तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ।। १२१७ ।। व्या० यस्माद्विनयति कर्म नाशयति कर्माष्टविधम्, किमर्थम् ? - चतुरन्तमोक्षाय संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः विनय इति विनयनाद्विनयः विलीनसंसाराः क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा विनीता गौर्नष्टक्षीराऽभिधीयते इति गाथार्थः ॥ १२१७॥”. आव० हारि० ।
[पृ०६२५] “सम्प्रति प्रसङ्गतोऽन्यतोऽप्युद्वृत्तानां लब्धिं प्रतिपादयति- भूदगपंकप्पभवा, चउरो हरिआउ छच्च सिज्झति । विगला लभिज्ज विरइं, न हु किंचि लभिज्ज सुहुमतसा ॥ २९७ ॥ व्या० भुवः पृथिव्या उदकात् अप्कायात् पंक त्ति पदैकदेशे पदसमुदायोपचारात् पङ्कप्रभायाः प्रभवः उत्पत्तिर्येषां मनुष्याणां ते भूदकपङ्कप्रभवा एकस्मिन् समये चत्वारः सिध्यन्ति । किमुक्तं भवति ? पृथिवीकायेभ्योऽथवाऽप्कायिकेभ्यो यदि वा पङ्कप्रभाया उद्वृत्ताः सन्तोऽनन्तरभवे मनुष्या जता कस्मिन् समये सिध्यन्ति, ततः प्रत्येकं चत्वारश्चत्वारः सिध्यन्ति । हरितेभ्यो वनस्पतिकायिकेभ्य उद्वृत्ताः षट् । तथा विकलात् विकलेन्द्रियादुद्वृत्ता अनन्तरभवे मनुष्या जाता विरतिं सर्वसावद्यविरतिं भ, न तु सिध्यन्ति । सूक्ष्मत्रसात् तेजः कायिकाद्वायुकायिकाद्वा उद्वृत्ता अनन्तरभवे तिर्यक्पञ्चेन्द्रिया अपि जाता न कमपि गुणं सम्यक्त्वादिकं लभन्ते, तथास्वाभाव्यात् ॥ २९७||
पुढवीआउवणस्सइगब्भे पज्जत्त संखजीवीसु । सग्गचुआणं वासो, सेसा पडिसेहिया ट्ठाणा ॥१८०॥ व्या० स्वर्गाद् भवनपत्यावासादिरूपाच्चतुर्विधाद् देवलोकाच्च्युतानां देवानां वासो वसनमुत्पत्तिरित्यर्थः, पृथिवीकायेऽप्काये वनस्पतिकाये तथा गर्भव्युत्क्रान्तेषु पज्जत्त त्ति विभक्तिलोपात् पर्याप्तेषु पृथिव्यादिषु सर्वेष्वपि सङ्ख्यातवर्षजीविषु तिर्यङ्मनुष्येषु भवति, शेषाणि पुनः स्थानानि तेजस्काय-वायुकाय-द्वि- त्रि- चतुरिन्द्रिय-संमूर्च्छि मपञ्चेन्द्रिय-देव- नारकरूपाणि प्रतिषिद्धानि तीर्थकरगणधरैः ॥१८०॥” बृहत्संग्रहणी० मलय० ।
[पृ०६२७] “ततः साम्प्रतं घर्मादिषु पृथिवीषु यथाक्रमं प्रस्तटसङ्ख्यामाह - रिक्कारस नव सत्त पंच तिन्नेव हुंति इक्को य । पत्थडसंखा एसा, सत्तसु वि कमेण पुढवीसु ॥ २५३॥ व्या० सप्तस्वपि पृथिवीषु क्रमेणैषा प्रस्तटसङ्ख्या, तद्यथा- प्रथमायां पृथिव्यां त्रयोदश, द्वितीयस्यामेकादश, तृतीयस्यां नव, चतुर्थ्यां सप्त, पञ्चम्यां पञ्च, षष्ठ्यां त्रयः, सप्तम्यामेक इति । एते च प्रस्तटाः सर्वेऽपि प्रत्येकं सहस्रत्रयप्रमाणोच्छ्रयाः । तथाहि - योजनसहस्रमेकमधस्ताद्घनपृथिवीरूपं पीठम्, योजनसहस्रं मध्ये शुषिरम्, योजनसहस्रमुपरि संकोचतचलिकान्तं यावदिति ॥ " - बृहत्संग्रहणी०
मलय० ।
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org