________________
प्रथमं परिशिष्टम् - टिप्पनानि
मधुरत्वादिस्वल्पधर्मान्वितमेव पृथग् भिन्नजातीयं नानाशब्दसमूहं जानाति । अन्यस्तु क्षिप्रम् । कोऽर्थः ?, इत्याह- अचिरेण शीघ्रमेव परिच्छिनत्ति, न तु चिरेण विमृश्येत्यर्थः । अन्यस्त्वक्षिप्रं चिरविमर्शितं जानाति । तथा 'तं चिय सरूवओ जं अणिस्सिय मिति तमेव नानाशब्दसमूहं कोऽप्यनिश्रितं 'मुणति' इति संबन्धः । यं किम् ?, इत्याह- यं स्वरूपतो जानाति, कोऽर्थः ?, इत्याह- अलि पताकादिलिङ्गानिश्रितमित्यर्थः । इदमुक्तं भवति - तमेव शब्दसमूहं 'देवकुलमत्र, तथाविधपताकादर्शनात् ' इत्येवं लिङ्गनिश्रामकृत्वा स्वरूपत एव यमवगच्छति, तमनिश्रितं 'मुणति' इत्युच्यत इति । तमेव लिङ्गनिश्रया जानानो निश्रितं 'मुणति' इत्युच्यते । तथा निच्छियमसंसयं जं ति यमसंशयमवच्छिनत्ति तं निश्चितं 'मुणति' । निश्चितं तावदित्थमेतद् मया, परं न जाने, तथा वा स्यात्, अन्यथा वा, इत्येवं संदेहानुविद्धं तु जानन्ननिश्चितं 'मुणति' । धुवमित्यादि, ध्रुवम्, कोऽर्थः ? अत्यन्तम्, न तु कदाचिदिति । इदमुक्तं भवति - यथैकदा बह्वादिरूपेणाऽवगतं सर्वदैव तथाऽवबुध्यमानो ध्रुवं 'मुणति' इत्युच्यते । यस्तु कदाचिद् बह्वादिरूपेण, कदाचित् त्वबह्वादिरूपेण, सोऽध्रुवं 'मुणति' ॥ इति गाथाद्वयार्थः ॥ ३०८-३०९ ।। " एत्तो च्चिय पडिवक्खं साहिज्जा, निस्सिए विसेसो वा । परधम्मेहि विमिस्सं निस्सियमविणिस्सियं इयरं ॥ ३१०॥ एतस्मादेवोक्तस्वरूपाद् बह्वादिपदषट्कसमूहात् प्रतिपक्षमेतद्विपर्ययमबह्व-बहुविधा - ऽक्षिप्र - निश्रिताऽनिश्चिता-ऽध्रुवपदषट्कलक्षणं साधयेत् स्वयमेव ब्रूयाद् मेधावी । स च लाघवार्थं बह्वादिविचार एव साधितः । तदेवं व्याख्याता द्वादशापि बह्वादयो भेदाः । अथवा निश्रिते सप्रतिपक्षेऽपि व्याख्यानान्तरलक्षणो विशेषो वक्तव्यः । कः ?, इत्याहपरधर्मैरश्वादिवस्तुधर्मैर्विमिश्रं युक्तं गवादिवस्तु गृह्णानस्य निश्रितं भवति - गामश्वादिरूपेण गृह्णतो येयं विपर्ययोपलब्धिः, तन्निश्रितमित्यर्थः । इतरत्तु यत्परधर्मैर्विमिश्रं वस्तु न गृह्णाति, किन्तु यथावस्थितमेव तत्सद्भूतोपलब्धिरूपमनिश्रितं गवादिकं वस्तु गवादिरूपेणैव गृह्णतो येयमविपर्ययोपलब्धिस्तदनिश्रितमित्यर्थः ॥
१३०
अत्राह- ननु बहु-बहुविधपरिज्ञानादीनि विशेषणानि स्पष्टार्थग्राहकेष्वपायादिषु भवन्तु, व्यञ्जनावग्रहनिश्चयार्थावग्रहयोस्तु कथं तत्संभवः ?, तथाहि - 'सामन्नमणिद्देसं सरूव-नामाइकप्पणारहियं' इत्यादिवचनान्निश्चयार्थावग्रहे शब्दादिविशेषमात्रग्रहणमपि नास्ति, कुतो यथोक्तबह्वादिपरिज्ञानसंभवः ? अथ व्याख्यानाद् व्यवहारार्थावग्रहोत्र गृह्यते, तस्मिंश्च विशेषग्राहित्वाद् बहुपरिज्ञानादिविशेषणान्युपपद्यन्त एव । भवत्वेवम्, तथाऽप्यष्टाविंशतिभेदमध्यसंगृहीतस्य व्यञ्जनावग्रहस्य कथमेतद्विशेषणसंभवः ? तत्र हि सामान्यार्थग्रहणमात्रमपाकृतम्, बह्वादिपरिज्ञानं तु दूरोत्सारितमेवेति ॥
सत्यमेतत्, किन्तु व्यञ्जनावग्रहादयः कारणमपायादीनाम्, तानन्तरेणाऽपायाद्यभावात् । ततश्चाऽपायादिगतं बह्वादिपरिज्ञानं तत्कारणभूतेषु व्यञ्जनावग्रहादिष्वपि योग्यतयाऽभ्युपगन्तव्यम् । न हि सर्वथाऽविशिष्टात् कारणाद् विशिष्टं कार्यमुत्पत्तुमर्हति, कोद्रवबीजादेरपि शालिफलादिप्रसवप्रसङ्गात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org