________________
प्रथमं परिशिष्टम्- टिप्पनानि
१२९
योऽपाय: स स उत्तरोत्तरेहा-ऽपायापेक्षया, एष्यविशेषापेक्षया चोपचारतोऽर्थावग्रहः । एवं च तावद् नेयम्, यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते ।। इति गाथार्थः ॥२८५॥ तरतमजोगाभावेऽवाउ च्चिय धारणा तदंतम्मि । सव्वत्थ वासणा पुण भणिया कालंतरे वि सई ॥२८६।। तरतमयोगाभावे ज्ञातुरग्रेतनविशेषाकाङ्क्षानिवृत्तावपाय एव भवति, न पुनस्तस्याऽवग्रहत्वमिति भावः, तनिमित्तानां पुनरीहादीनामभावादिति । यद्यग्रत ईहादयो न भवन्ति, तर्हि किं भवति ?, इत्याहतदन्तेऽपायान्ते धारणा तदर्थोपयोगाऽप्रच्युतिरूपा भवति। शेषस्य वासना-स्मृतिरूपस्य धारणाभेदद्वयस्य क्क संभवः ?, इत्याह- सव्वत्थ वासणा पुणेत्यादि वासना वक्ष्यमाणरूपा, तथा कालान्तरे स्मृतिः, सा च सर्वत्र भणिता । अयमर्थः- अविच्युतिरूपा धारणाऽपायपर्यन्त एव भवति, वासना-स्मृती तु सर्वत्र कालान्तरेऽप्यविरुद्धे ॥ इति गाथार्थः ॥२८६॥" - विशेषाव० मलधारि० ॥
[पृ०६२२] “जं बहु-बहुविह-खिप्पा-ऽनिस्सिय-निच्छिय-धुवे-यरविभिन्ना । पुणरुग्गहादओ तो तं छत्तीसत्तिसयभेयं ॥३०७॥ यद् यस्माद् बहु-बहुविध-क्षिप्रा-ऽनिश्रितनिश्चित-ध्रुवैः सेतरैः सप्रतिपक्षरेकै कशो विभिन्ना भेदभाजः पुनरप्यवग्रहादय इष्यन्ते । ततस्तदेवाऽष्टाविंशतिविधमाभिनिबोधिकज्ञानमेतै दशभिर्भेदैः प्रत्येकं भिद्यमानत्वात् षट्त्रिंशदधिकत्रिशतभेदं भवति । इदमुक्तं भवति- अनन्तरवक्ष्यमाणन्यायेन, संक्षेपतः प्रागभिहितयुक्त्या च श्रोत्रादिभिः कश्चिद् बह्ववगृह्णाति, कश्चित्त्वबहु, अपरस्तु बहुविधम्, अन्यस्त्वबहुविधम्; एवं यावदन्यो ध्रुवम्, अपरस्त्वध्रुवमवगृह्णातीति। एवमीहा-ऽपाय-धारणास्वपि सप्रभेदासु प्रत्येकममी द्वादश भेदा योजनीयाः। नवरमीहते, निश्चिनोति, धारयति, इत्याद्यभिलापः कार्यः । ततश्चाऽष्टाविंशतौ द्वादशभिर्गुणितायां षट्त्रिंशदधिकानि त्रीणि शतानि भेदानां भवन्ति ॥ इति गाथार्थः ॥३०७॥
नाणासद्दसमूहं बहुं पिहं मुणइ भिन्नजाईयं । बहुविहमणेगभेयं एक्केवं निद्ध-महुराई ॥३०८॥ खिप्पमचिरेण तं चिय सरूवओ जं अणिस्सियमलिङ्गं । निच्छियमसंसयं जं धुवमच्चंतं न उ कयाई ॥३०९॥ इह श्रवणयोग्यदेशस्थे तूर्यसमुदाये युगपद् वाद्यमाने कोऽपि श्रोता तस्य तूर्यसंघातस्य संबन्धिनं पटह-ढक्का-शङ्ख-भेरि-भाणकादिनानाशब्दसमूहमाकर्णितं सन्तं क्षयोपशमविशेषाद् बहुमवग्रहादिना 'मुणति' जानाति । कोऽर्थः ?, इत्याह- पृथग् भिन्नजातीयम्, एतावन्तोऽत्र भेरिशब्दाः, एतावन्तो भाणकशब्दाः, एतावन्तस्तु शङ्ख-पटाहादिशब्दाः, इत्येवं पृथगेकैकशो भिन्नजातीयत्वेन तं नानाशब्दसमूहं बुध्यत इत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुं 'मुणति' सामान्येन 'नानातूर्यशब्दोऽयम्' इत्यादिमात्रकमेव जानातीति प्रतिपक्षः। एवमुत्तरगाथायामतिदेक्ष्यमाणा प्रतिपक्षभावना सर्वत्राऽवबोद्धव्या । अन्यस्तु क्षयोपशमवैचित्र्याद् बहुविधं 'मुणति' । कोऽर्थः ?, इत्याह- अनेकभेदम्, इदमपि व्याचष्टे- एकैकं शङ्ख-भेर्यादिशब्दं स्निग्धत्वमधुरत्व-तरुण-मध्यम-वृद्धपुरुषवाद्यत्वादिबहुविधधर्मोपेतं जानातीत्यर्थः । अन्यस्त्वबहुविधं स्निग्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org