Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 546
________________ प्रथमं परिशिष्टम्- टिप्पनानि १३१ इति प्रागप्युक्तप्रायम् । इत्यलमतिचर्चितेन ॥ इति गाथार्थः ॥ ३१० ॥" - विशेषाव० मलधारि० ॥ [पृ० ६२४] " अतो विनयोपचारार्थं कृतिकर्म क्रियत इति स्थितम् । आह - विनय इति कः शब्दार्थ इति, उच्यते - जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमुक्खाए । तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ।। १२१७ ।। व्या० यस्माद्विनयति कर्म नाशयति कर्माष्टविधम्, किमर्थम् ? - चतुरन्तमोक्षाय संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः विनय इति विनयनाद्विनयः विलीनसंसाराः क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा विनीता गौर्नष्टक्षीराऽभिधीयते इति गाथार्थः ॥ १२१७॥”. आव० हारि० । [पृ०६२५] “सम्प्रति प्रसङ्गतोऽन्यतोऽप्युद्वृत्तानां लब्धिं प्रतिपादयति- भूदगपंकप्पभवा, चउरो हरिआउ छच्च सिज्झति । विगला लभिज्ज विरइं, न हु किंचि लभिज्ज सुहुमतसा ॥ २९७ ॥ व्या० भुवः पृथिव्या उदकात् अप्कायात् पंक त्ति पदैकदेशे पदसमुदायोपचारात् पङ्कप्रभायाः प्रभवः उत्पत्तिर्येषां मनुष्याणां ते भूदकपङ्कप्रभवा एकस्मिन् समये चत्वारः सिध्यन्ति । किमुक्तं भवति ? पृथिवीकायेभ्योऽथवाऽप्कायिकेभ्यो यदि वा पङ्कप्रभाया उद्वृत्ताः सन्तोऽनन्तरभवे मनुष्या जता कस्मिन् समये सिध्यन्ति, ततः प्रत्येकं चत्वारश्चत्वारः सिध्यन्ति । हरितेभ्यो वनस्पतिकायिकेभ्य उद्वृत्ताः षट् । तथा विकलात् विकलेन्द्रियादुद्वृत्ता अनन्तरभवे मनुष्या जाता विरतिं सर्वसावद्यविरतिं भ, न तु सिध्यन्ति । सूक्ष्मत्रसात् तेजः कायिकाद्वायुकायिकाद्वा उद्वृत्ता अनन्तरभवे तिर्यक्पञ्चेन्द्रिया अपि जाता न कमपि गुणं सम्यक्त्वादिकं लभन्ते, तथास्वाभाव्यात् ॥ २९७|| पुढवीआउवणस्सइगब्भे पज्जत्त संखजीवीसु । सग्गचुआणं वासो, सेसा पडिसेहिया ट्ठाणा ॥१८०॥ व्या० स्वर्गाद् भवनपत्यावासादिरूपाच्चतुर्विधाद् देवलोकाच्च्युतानां देवानां वासो वसनमुत्पत्तिरित्यर्थः, पृथिवीकायेऽप्काये वनस्पतिकाये तथा गर्भव्युत्क्रान्तेषु पज्जत्त त्ति विभक्तिलोपात् पर्याप्तेषु पृथिव्यादिषु सर्वेष्वपि सङ्ख्यातवर्षजीविषु तिर्यङ्मनुष्येषु भवति, शेषाणि पुनः स्थानानि तेजस्काय-वायुकाय-द्वि- त्रि- चतुरिन्द्रिय-संमूर्च्छि मपञ्चेन्द्रिय-देव- नारकरूपाणि प्रतिषिद्धानि तीर्थकरगणधरैः ॥१८०॥” बृहत्संग्रहणी० मलय० । [पृ०६२७] “ततः साम्प्रतं घर्मादिषु पृथिवीषु यथाक्रमं प्रस्तटसङ्ख्यामाह - रिक्कारस नव सत्त पंच तिन्नेव हुंति इक्को य । पत्थडसंखा एसा, सत्तसु वि कमेण पुढवीसु ॥ २५३॥ व्या० सप्तस्वपि पृथिवीषु क्रमेणैषा प्रस्तटसङ्ख्या, तद्यथा- प्रथमायां पृथिव्यां त्रयोदश, द्वितीयस्यामेकादश, तृतीयस्यां नव, चतुर्थ्यां सप्त, पञ्चम्यां पञ्च, षष्ठ्यां त्रयः, सप्तम्यामेक इति । एते च प्रस्तटाः सर्वेऽपि प्रत्येकं सहस्रत्रयप्रमाणोच्छ्रयाः । तथाहि - योजनसहस्रमेकमधस्ताद्घनपृथिवीरूपं पीठम्, योजनसहस्रं मध्ये शुषिरम्, योजनसहस्रमुपरि संकोचतचलिकान्तं यावदिति ॥ " - बृहत्संग्रहणी० मलय० । Jain Education International 1 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579