________________
प्रथमं परिशिष्टम्- टिप्पनानि
१३५
पावा णायव्वा, तेसिं च परूवणा इणमो ॥६११८॥ क्षामितानि वचसा मिथ्यादुष्कृतप्रदानेन शमितानि, वोसवितानि विविधमनेकधा मनसा व्युत्सृष्टानि, क्षामितानि च तानि व्युत्सृष्टानि चेति क्षामित-व्युत्सृष्टानि । एवंविधान्यधिकरणानि ये भूय उदीरयन्ति ते पापा: साधुधर्मबाह्या ज्ञातव्याः। तेषां च इयं प्ररूपणा ॥६११८॥" - बृहत्कल्पटीका ।
"खामित विउसविताइं, अधिकरणाइं तु जे पुणोप्पाए । ते पावा णातव्वा, तेसिं तु परूवणा इणमो ॥१८१८॥ पावा ण साधुधर्मे व्यवस्थिता इत्यर्थः । कहं उप्पाएति ? केति साहुणो पुव्वकलहिता तम्मि य खामिय विओसविते। तत्थेगो भणति- अहं णाम तुमे तदा एवं भणितो आसि ण जुत्तं तुज्झ । इयरो पडिभणाति- अहं पि ते किं ण भणितो? इतरो भणातिइयाणिं ते किं मुयामि ? एवं उप्पाएति स उप्पायगो ॥१८१८॥" - निशीथ० चूर्णिः।
[पृ०६३५] तत्र दुर्दुरविषयं तावदाह- ओमो चोइजंतो, दुपहियादीसु संपसारेति । अहमवि णं चोदिस्सं, न य लब्भति तारिसं छेड्डे ॥६१३५॥ अवमः अवमरात्निको रात्निकेन दुःप्रत्युपेक्षितादिषु स्खलितेषु भूयो भूयो नोद्यमानः सम्प्रसारयति मनसि पर्यालोचयति- अहमपि णं एनं रात्निकं नोदयिष्यामि । एवं पर्यालोच्य प्रयत्नेन गवेषयन्नपि तादृशं छिद्रं रात्निकस्य न लभते ॥६१३५॥ ____ अन्ने धातिए दडुरम्मि दट्ठ चलणं कतं ओमो । उद्दवितो एस तुमे, ण मि त्ति बितियं पि ते णत्थी ॥६१३६॥ अन्यदा च भिक्षादिपर्यटने अन्येन केनापि दर्दुरे घातिते रात्निकेन च तस्योपरि चलनं पादं कृतं दृष्ट्वाऽवमो ब्रवीति- एष दर्दुरस्त्वयाऽपद्रावितः। रात्निको वक्ति- न मयाऽपद्रावितः । अवमः प्राह- द्वितीयमपि मृषावादव्रतं ते तव नास्ति ॥६१३६।।
सम्प्रति मृषावादा-ऽदत्तादानयोः प्रस्तारमाह- मोसम्मि संखडीए, मोयगगहणं अदत्तदाणम्मि। आरोवणपत्थारो, तं चेव इमं तु णाणत्तं ॥६१४२॥ मृषावादे सखडीविषयं निदर्शनम् । अदत्तादाने मोदकग्रहणम् । एतयोर्द्वयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः । इदं तु नानात्वं विशेषः ॥६१४२॥
दीण-कलुणेहि जायति, पडिसिद्धो विसति एसणं हणति । जंपति मुहप्पियाणि य, जोग-तिगिच्छा-निमित्ताई ॥६१४३॥ कस्यामपि सङ्खड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्- व्रजामः सखड्याम्, इदानीं भोजनकालः सम्भाव्यते । अवमो भणति- प्रतिषिद्धोऽहं न व्रजामि । ततोऽसौ निवृत्याऽऽचार्यायेदमालोचयति, यथा- अयं दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां च हन्ति प्रेरयति, अथवा एष गृहं प्रविष्टो मुखप्रियाणि योग-चिकित्सा-निमित्तानि जल्पति । एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति ॥६१४३॥" - बृहत्कल्पटीका ।
[पृ०६३६] “एवमुक्त्वा त्वरितं वसतावागत्य मैथुनेऽभ्याख्यानं दातुं यथा आलोचयति तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org