________________
१३४
प्रथमं परिशिष्टम्- टिप्पनानि
चत्वारश्चत्वारो विमानेन्द्रकाः चतुषु चतुःसङ्ख्येषु, तद्यथा- शुक्रे सप्तमे चत्वारः, सहस्रारेऽष्टमे चत्वारः, आनतप्राणतयोस्समभूमिकयोश्चत्वारः, आरणाच्युतयोरपि समभूमिकयोश्चत्वारः । कल्पेषु देवाधिवासेषु, देवलोकेष्वित्यर्थः, कल्पशब्दस्याधिवासपर्यायस्यापि संभवात्, यथोक्तम्- सामर्थ्य वर्णनायां च, कल्पने छेदने तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥१॥ तथा ग्रैवेयकेषु लोकपुरुषग्रीवास्थानभवेष्वधस्तनमध्यमोपरितनसंज्ञितेषु प्रत्येकमधस्तनाधस्तनादिभेदेन भिन्नेषु नवसु विमानविशेषेषु त्रिकं त्रिकम् एकैकस्मिन् त्रिके त्रयस्त्रयः, सर्वे नवेत्यर्थः । एकस्तु एकः पुनः अनुत्तरेषु सर्वविमानोपरिवर्तितया प्राप्तानुत्तराभिधानेषु विमानभेदेषु भवेत् जायतेन्द्रक इति । एवं चैते त्रयोदशादिसङ्ख्यसर्वेन्द्रकमीलने द्वाषष्टिर्भवन्तीति । स्थापना चेयम्- १३।१२।६।५।४।४।४।४।३।३।३।१। सर्वेऽपि ६२ ॥१२९॥" - देवेन्द्रनरकेन्द्रप्रकरणटीका॥
_[पृ०६३३ पं०१३] अनुगामुकोऽनुगच्छति गच्छन्तं लोचनं यथा पुरुषम् । इतरश्च नानुगच्छति स्थितप्रदीप इव गच्छन्तम् ॥७१५॥- इति संस्कृते छाया ।
पइसमयसंखिजइभागहियं कोइ संखभागहियं । अन्नो संखेजगुणं खित्तमसंखिजगुणमण्णो ॥७३०॥ पेच्छइ विवड्डमाणं हायंतं वा, तहेव कालं पि । नाणंतवुड्विहाणी पेच्छइ जं दो वि नाणंते ॥७३१॥ गतार्थे एव, नवरं क्षेत्र-कालयो ऽनन्ते वृद्धि-हानी। कुतः ?, इत्याह- पेच्छईत्यादि यद् यस्माद् द्वावपि क्षेत्र-कालौ नाऽनन्ताववधिज्ञानी पश्यति, पूर्वोक्तयुक्तेरिति ॥७३०-७३१॥" - विशेषाव० मलधारि०॥
[पृ०६३४] “उक्कोसो मणुएसुं मणुस्स-तेरिच्छिएसु य जहण्णो । उक्कोस लोगमित्तो पडिवाइ परं अपडिवाई ॥७०३॥ इह द्रव्यतः, क्षेत्रतः, कालतो भावतश्चोत्कृष्टोऽवधिर्मनुष्येष्वेव, न देवादिषु। तथा, मनुष्याश्च तिर्यञ्चश्च तेष्वेव जघन्यः, न तु सुर-नारकेषु । तत्र चोत्कृष्टोऽवधिर्द्विविधःलोकगतः, अलोकगतश्च। तत्र योऽसौ समस्तलोकमात्रदर्शी उत्कृष्टः, मात्रशब्दोऽलोकव्यवच्छेदार्थः, स प्रतिपतनशीलः प्रतिपाती, अप्रतिपाती च भवति । ततः परं येनैकोऽप्याकाशप्रदेशो दृष्टः सोऽप्रतिपात्येव भवति । क्षेत्रपरिणामद्वारेऽपि प्रस्तुते प्रसङ्गतो विनेयानुग्रहार्थं प्रतिपात्यप्रतिपातिस्वरूपाभिधानमित्यदोषः॥ इति नियुक्तिगाथार्थः ॥७०३॥" - विशेषाव० मलधारि०॥
__ “अथारस्थितवचनमाह- अरे हरे बंभण पुत्ता, अव्वो बप्पो त्ति भाय मामो त्ति। भट्टिय सामिय गोमिय, लहुओ लहुआ य गुरुआ य ॥६११६॥ अरे इति वा हरे इति वा ब्राह्मण इति वा पुत्र इति वा यदि आमन्त्रणवचनं ब्रूते तदा मासलघु । अव्वो बप्पो भ्रातर् मामक उपलक्षणत्वाद् अम्ब भागिनेय इत्यादीन्यपि यदि वक्ति तदा चतुर्लघु । अथ भट्टिन् स्वामिन् गोमिन् इत्यादीनि गौरवगर्भाणि वचांसि ब्रूते तदा चतुर्गुरुकाः आज्ञादयश्च दोषाः ॥६११६॥
अथ व्यवशमितोदीरणवचनमाह- खामिय-वोसविताइं, अधिकरणाइं तु जे उईरेति । ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org