________________
१३६
प्रथमं परिशिष्टम्- टिप्पनानि दर्शयति- जेट्टजेण अकजं, सजं अज्जाघरे कयं अजं । उवजीवितो य भंते !, मए वि संसट्ठकप्पोऽत्थ ॥६१५०॥ ज्येष्ठार्येणाद्य सद्यः इदानीमार्यागृहे कृतम् अकार्यं मैथुनसेवालक्षणम्; ततो भदन्त ! तत्संसर्गतो मयाऽपि संसृष्टकल्प: मैथुनप्रतिसेवा अत्र अस्मिन् प्रस्तावे उपजीवितः ॥६१५०॥
अथापुरुषवादमाह- तइओ त्ति कधं जाणसि, दिट्ठा णीया से तेहि मी वुत्तो । वदृति ततिओ तुब्भं, पव्वावेतुं मम वि संका ॥६१५३॥ कोऽपि साधुस्तथैव छिद्रान्वेषी भिक्षातो निवृत्य रत्नाधिकमुद्दिश्याऽऽचार्यं भणति- एष साधुः तृतीयः त्रैराशिकः । आचार्यः प्राह- कथं जानासि ?। स प्राह- मयैतस्य निजका दृष्टाः तैरहमुक्तः- वर्तते युष्माकं तृतीयः प्रव्राजयितुम् ?; ततो ममापि हृदये शङ्का जाता ॥६१५३॥ ___अपि च- दीसति य पाडिरूवं, ठित-चंकम्मित-सरीर-भासाहिं । बहुसो अपुरिसवयणे, सवित्थराऽऽरोवणं कुजा ॥६१५४॥ अस्य साधोः प्रतिरूपं नपुंसकानुरूपं रूपं स्थित-चङ्क्रमितशरीर-भाषादिभिर्लक्षणैर्दृश्यते । एवं बहुशः अपुरुषवचने नपुंसकवादे वर्तमानस्य सविस्तरामारोपणां कुर्यात् ॥६१५४॥ ____अथ दासवादमाह- खरओ त्ति कहं जाणसि, देहायारा कहिंति से हंदी ! छिक्कोवण उब्भंडो, णीयासी दारुणसभावो ॥६१५७॥ कोऽपि साधुस्तथैव रत्नाधिकमुद्दिश्याचार्यं भणतिअयं साधु: खरकः दास इति । आचार्य आह- कथं जानासि ?। इतर: प्राह- एतदीयनिजकैर्मम कथितम् । तथा देहाकाराः कुब्जतादयः से तस्य हंदी इत्युपप्रदर्शने दासत्वं कथयन्ति । तथा छिक्कोवण त्ति शीघ्रकोपनोऽयम्, उन्भंडो नाम असंवृतपरिधानादि; नीचासी नीचतरे आसने उपवेशनशीलः, दारुणस्वभाव इति प्रकटार्थम् ॥६१५७।।
अथ देहाकार त्ति व्याख्याति- देहेण वा विरूवो, खुजो वडभो य बाहिरप्पादो । फुडमेव से आयारा, कहिँति जह एस खरओ त्ति ॥६१५८॥ स प्राह- देहेनाप्ययं विरूपः, तद्यथाकुब्जो वडभो बाह्यपादो वा । एवमादयस्तस्याऽऽकाराः स्फुटमेव कथयन्ति, यथा- एषः खरक: दास इति ॥६१५८॥ ___ अथाऽऽचार्यः प्राह- केइ सुरूव दुरूवा, खुजा वडभा य बाहिरप्पाया । न हु ते परिभवियव्वा, वयणं व अणारियं वोत्तुं ॥६१५९॥ इह नामकर्मोदयवैचित्र्यतः केचिद् नीचकुलोत्पन्ना अपि दासादयः सुरूपा भवन्ति, केचित् तु राजकुलोत्पन्ना अपि दूरूपाः भवन्ति, तथा कुब्जा वडभा बाह्यपादा अपि भवन्ति, अतः नहि नैव ते परिभवितव्याः अनार्यं वा वचनं दासोऽयम् इत्यादिकं वक्तुं योग्याः ॥६१५९॥" - बृहत्कल्पटीका ।
[पृ०६३७] “अथ करणे द्रव्य-भावपरिमन्थौ भाष्यकारोऽपि भावयति- दव्वम्मि मंथतो खलु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org