Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 543
________________ १२८ प्रथमं परिशिष्टम्- टिप्पनानि निश्चयवेदिनोऽवगच्छन्तीति नैश्चयिकोऽयमुच्यते । अथ च्छद्मस्थव्यवहारिभिरपि यो व्यवह्रियते, तं व्यावहारिकमुपचरितमर्थावग्रहं दर्शयति- तत्तो इत्यादि, ततो नैश्चयिकार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपायः स पुनर्भाविनीमीहाम्, अपायं चाऽपेक्ष्योपचरितोऽवग्रहोऽर्थावग्रह इति द्वितीयगाथायां संबन्धः । उपचारस्यैवाऽस्य निमित्तान्तरमाह- एस्सेत्यादि, एष्यो भावी योऽन्यो विशेषस्तदपेक्षया येन कारणेनाऽयमपायोऽपि सन् सामान्यं गृह्णाति, यश्च सामान्यं गृह्णाति सोऽर्थावग्रहो यथा प्रथमो नैश्चयिकः । एतदिह तात्पर्यम्- प्रथमं नैश्चयिकेऽर्थावग्रहे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादिवस्तुसामान्यं गृहीतम्, ततस्तस्मिन्नीहिते सति ‘शब्द एवाऽयम्' इत्यादि निश्चयरूपोऽपायो भवति। तदनन्तरं तु ‘शब्दोऽयं किं शाखः, शार्हो वा' इत्यादिशब्दविशेषविषया पुनरीहा प्रवर्तिष्यते, 'शाङ्ख एवाऽयं शब्दः' इत्यादिशब्दविशेषविषयोऽपायश्च यो भविष्यति तदपेक्षया 'शब्द एवाऽयम्' इति निश्चयः प्रथमोऽपायोऽपि सन्नुपचारादर्थावग्रहो भण्यते, ईहा-ऽपायापेक्षात इति, अनेन चोपचारस्यैकं निमित्तं सूचितम् । ‘शाङ्खोऽयं शब्दः, इत्याद्येष्यविशेषापेक्षया येनाऽसौ सामान्यशब्दरूपं सामान्य गृह्णातीति, अनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितम्; तथाहि- यदनन्तरमीहा-ऽपायौ प्रवर्तेते, यश्च सामान्यं गृह्णाति, सोऽर्थावग्रहः, यथाऽऽद्यो नैश्चयिकः, प्रवर्तते च शब्द एवाऽयम्' इत्याद्यपायानन्तरमीहाऽपायौ, गृह्णाति च 'शाङ्खोऽयम्' इत्यादिभाविविशेषापेक्षयाऽयं सामान्यम् । तस्मादर्थावग्रह एष्यविशेषापेक्षया सामान्यं गृह्णातीत्युक्तम् । ततस्तदनन्तरं किं भवति ?, इत्याह तृतीयगाथायाम्- तत्तोऽणन्तरमित्यादि, ततः सामान्येन शब्दनिश्चयरूपात् प्रथमापायादनन्तरं 'किमयं शब्दः शाखः, शार्हो वा ?' इत्यादिरूपेहा प्रवर्तते । ततस्तद्विशेषस्य शङ्खप्रभवत्वादेः शब्दविशेषस्य 'शाङ्ख एवाऽयम्' इत्यादिरूपेणाऽपायश्च निश्चयरूपो भवति । अयमपि च भूयोऽन्यतमविशेषाकाङ्क्षावत: प्रमातु विनीमीहामपायं चापेक्ष्य, एष्यविशेषापेक्षया सामान्यालम्बनत्वाच्चाऽर्थावग्रह इत्युपचर्यते । इयं च सामान्य-विशेषापेक्षा तावत् कर्तव्या, यावदन्त्यो वस्तुनो भेदो विशेषः । यस्माच्च विशेषात् परतो वस्तुनोऽन्ये विशेषा न संभवन्ति सोऽन्त्यः, अथवा संभवत्स्वपि अन्यतमविशेषेषु यतो विशेषात् परतः प्रमातुस्तज्जिज्ञासा निवर्तते सोऽन्त्यः, तमन्त्यं विशेषं यावद् व्यावहारिकाऽर्थावग्रहे-हा-ऽपायार्थं सामान्य-विशेषाऽपेक्षा कर्तव्या ॥ इति गाथात्रयार्थः ॥२८२-२८४॥ सव्वत्थे-हा-वाया निच्छ यओ मोत्तुमाइसामण्णं । संववहारत्थं पुण सव्वत्थाऽवग्गहोऽवाओ ॥२८५॥ सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः परमार्थत ईहा-ऽपायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्येवं क्रमेण यावदन्त्यो विशेषः, तावदीहाऽपायावेव भवतः, नाऽर्थावग्रह इत्यर्थः । किं सर्वत्रैवमेव ?, न, इत्याह- मोत्तुमाइसामण्णं ति आद्यमव्यक्तं सामान्यमात्रालम्बनमेकसामयिकं ज्ञानं मुक्त्वाऽन्यत्रेहा-ऽपायौ भवतः, इदं पुनर्नेहा, नाऽप्यपायः, किन्त्वर्थावग्रह एवेति भावः। संव्यवहारार्थं व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579