Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 535
________________ १२० प्रथमं परिशिष्टम्- टिप्पनानि ज्ञानशब्देन समासः ॥ इति गाथार्थः ॥८२॥ अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाह- पजवणं पज्जयणं पजाओ वा मणम्मि मणसो वा । तस्स व पजायादिनाणं मणपजवं नाणं ॥८३॥ व्या० पजवणं ति 'अव गत्यादिषु' [पा०धा० ६००] इति वचनादवनं गमनं वेदनमित्यवः, परिः सर्वतोभावे, पर्यवनं समन्तात् परिच्छेदनं पर्यवः। क्वाऽयम् ?, इत्याह- मणम्मि मणसो व त्ति मनसि मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्यवो मनःपर्यवः, स चासौ ज्ञानं च मनःपर्यवज्ञानम् । अथवा पज्जयणं ति ‘अय वय मय' [पा०धा० ४७८-४८०]- इत्यादिदण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतोभावे, पर्ययनं सर्वतः परिच्छेदनं पर्ययः । व पुनरसौ ?, इत्याह- मणम्मि मणसो व त्ति मनसि ग्राह्ये, मानसो वा ग्राह्यस्य संबन्धी पर्ययो मनःपर्ययः स चासौ ज्ञानं च मनःपर्ययज्ञानम् । पजाओ व त्ति अथवा 'इण् गतौ' [पा०धा० १०४५] अयनम्, आयः, लाभः, प्राप्तिरिति पर्यायाः, परिस्तथैव, समन्तादायः पर्यायः । क्व ?, इत्याह- मणम्मि मणसो व त्ति मनसि ग्राह्ये, मनसो वा ग्राह्यस्य पर्यायो मनःपर्यायः, स चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं तावज्ज्ञानशब्देन सह सामानाधिकरण्यमङ्गीकृत्योक्तम् ॥ ___ अथ वैयधिकरण्यमङ्गीकृत्याह- तस्स वेत्यादि, वाशब्दः पक्षान्तरसूचकः, तस्येति मनसः, पर्यायाः, पर्यवाः, पर्ययाः, धर्मा इत्यनर्थान्तरमिति; आदिशब्दात् पर्यव-पर्ययपरिग्रहः, ततश्चायमर्थःअथवा तस्य मनसो ग्राह्यस्य संबन्धिनो बाह्यवस्तुचिन्तनानुगुणा ये पर्यायाः, पर्यवाः, पर्ययास्तेषां तेषु वा 'इदमित्थंभूतमनेन चिन्तितम्' इत्येवंरूपं ज्ञानं मनःपर्यायज्ञानम्, मनःपर्यवज्ञानम्, मनःपर्ययज्ञानं चेति ज्ञानशब्देन सह व्यधिकरणः समासः । अत एव ‘पायं च नाणसद्दो नामसमाणाहिगरणोऽयं' इत्यत्र प्रायोग्रहणं करिष्यति ॥ इति गाथार्थः ॥८३॥ अथ केवलज्ञानविषयं शब्दार्थमाह- केवलमेगं सुद्धं सगलमसाहारणं अणन्तं च । पायं च नाणसद्दो नामसमाणाहिगरणोऽयं ॥८४॥ व्या० केवलमिति व्याख्येयं पदम् । ततः केवलमिति कोऽर्थः ?, इत्याह- एकमसहायमिन्द्रियादिसाहाय्यानपेक्षित्वात्, तद्भावे शेषच्छाद्मस्थिकज्ञाननिवृत्तेर्वा शुद्धं निर्मलं सकलावरणमलकलङ्कविगमसंभूतत्वादिति । सकलं परिपूर्णं संपूर्णज्ञेयग्राहित्वात्, असाधारणमनन्यसदृशं तादृशाऽपरज्ञानाभावात्, अनन्तम्, अप्रतिपातित्वेनाऽविद्यमानपर्यन्तत्वात्, इत्येकादिष्वर्थेषु केवलशब्दोऽत्र वर्तते, केवलं च तज्ज्ञानं च केवलज्ञानमिति समासः । आह- नन्वाभिनिबोधिकादीनि ज्ञानवाचकानि नामान्येव भाष्यकृता ‘अत्थाभिमुहो नियओ' इत्यादौ सर्वत्र व्युत्पादितानि, ज्ञानशब्दस्तु न क्वचिदुपात्तः, स कथं लभ्यते ?, इत्याशङ्क्याह- पायं चेत्यादि प्रक्रमलब्धो ज्ञानशब्द आभिनिबोधिकश्रुतादिभिर्ज्ञानाभिधायकैर्नामभिः समानाधिकरणः स्वयमेव योजनीयः, स च योजित एव, तद्यथाआभिनिबोधिकं च तज्ज्ञानं च, श्रुतं च तज्ज्ञानं चेत्यादि । क्वचिद् वैयाधिकरण्यसमासोऽपि संभवतीति प्रायोग्रहणम् । स च मनःपर्यायज्ञाने दर्शित एव, अन्यत्राऽपि च यथासंभवं द्रष्टव्यः ॥ इति गाथार्थः ॥८४॥" - विशेषाव० मलधारि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579