________________
१२०
प्रथमं परिशिष्टम्- टिप्पनानि ज्ञानशब्देन समासः ॥ इति गाथार्थः ॥८२॥ अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाह- पजवणं पज्जयणं पजाओ वा मणम्मि मणसो वा । तस्स व पजायादिनाणं मणपजवं नाणं ॥८३॥ व्या० पजवणं ति 'अव गत्यादिषु' [पा०धा० ६००] इति वचनादवनं गमनं वेदनमित्यवः, परिः सर्वतोभावे, पर्यवनं समन्तात् परिच्छेदनं पर्यवः। क्वाऽयम् ?, इत्याह- मणम्मि मणसो व त्ति मनसि मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्यवो मनःपर्यवः, स चासौ ज्ञानं च मनःपर्यवज्ञानम् । अथवा पज्जयणं ति ‘अय वय मय' [पा०धा० ४७८-४८०]- इत्यादिदण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतोभावे, पर्ययनं सर्वतः परिच्छेदनं पर्ययः । व पुनरसौ ?, इत्याह- मणम्मि मणसो व त्ति मनसि ग्राह्ये, मानसो वा ग्राह्यस्य संबन्धी पर्ययो मनःपर्ययः स चासौ ज्ञानं च मनःपर्ययज्ञानम् । पजाओ व त्ति अथवा 'इण् गतौ' [पा०धा० १०४५] अयनम्, आयः, लाभः, प्राप्तिरिति पर्यायाः, परिस्तथैव, समन्तादायः पर्यायः । क्व ?, इत्याह- मणम्मि मणसो व त्ति मनसि ग्राह्ये, मनसो वा ग्राह्यस्य पर्यायो मनःपर्यायः, स चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं तावज्ज्ञानशब्देन सह सामानाधिकरण्यमङ्गीकृत्योक्तम् ॥ ___ अथ वैयधिकरण्यमङ्गीकृत्याह- तस्स वेत्यादि, वाशब्दः पक्षान्तरसूचकः, तस्येति मनसः, पर्यायाः, पर्यवाः, पर्ययाः, धर्मा इत्यनर्थान्तरमिति; आदिशब्दात् पर्यव-पर्ययपरिग्रहः, ततश्चायमर्थःअथवा तस्य मनसो ग्राह्यस्य संबन्धिनो बाह्यवस्तुचिन्तनानुगुणा ये पर्यायाः, पर्यवाः, पर्ययास्तेषां तेषु वा 'इदमित्थंभूतमनेन चिन्तितम्' इत्येवंरूपं ज्ञानं मनःपर्यायज्ञानम्, मनःपर्यवज्ञानम्, मनःपर्ययज्ञानं चेति ज्ञानशब्देन सह व्यधिकरणः समासः । अत एव ‘पायं च नाणसद्दो नामसमाणाहिगरणोऽयं' इत्यत्र प्रायोग्रहणं करिष्यति ॥ इति गाथार्थः ॥८३॥ अथ केवलज्ञानविषयं शब्दार्थमाह- केवलमेगं सुद्धं सगलमसाहारणं अणन्तं च । पायं च नाणसद्दो नामसमाणाहिगरणोऽयं ॥८४॥ व्या० केवलमिति व्याख्येयं पदम् । ततः केवलमिति कोऽर्थः ?, इत्याह- एकमसहायमिन्द्रियादिसाहाय्यानपेक्षित्वात्, तद्भावे शेषच्छाद्मस्थिकज्ञाननिवृत्तेर्वा शुद्धं निर्मलं सकलावरणमलकलङ्कविगमसंभूतत्वादिति । सकलं परिपूर्णं संपूर्णज्ञेयग्राहित्वात्, असाधारणमनन्यसदृशं तादृशाऽपरज्ञानाभावात्, अनन्तम्, अप्रतिपातित्वेनाऽविद्यमानपर्यन्तत्वात्, इत्येकादिष्वर्थेषु केवलशब्दोऽत्र वर्तते, केवलं च तज्ज्ञानं च केवलज्ञानमिति समासः । आह- नन्वाभिनिबोधिकादीनि ज्ञानवाचकानि नामान्येव भाष्यकृता ‘अत्थाभिमुहो नियओ' इत्यादौ सर्वत्र व्युत्पादितानि, ज्ञानशब्दस्तु न क्वचिदुपात्तः, स कथं लभ्यते ?, इत्याशङ्क्याह- पायं चेत्यादि प्रक्रमलब्धो ज्ञानशब्द आभिनिबोधिकश्रुतादिभिर्ज्ञानाभिधायकैर्नामभिः समानाधिकरणः स्वयमेव योजनीयः, स च योजित एव, तद्यथाआभिनिबोधिकं च तज्ज्ञानं च, श्रुतं च तज्ज्ञानं चेत्यादि । क्वचिद् वैयाधिकरण्यसमासोऽपि संभवतीति प्रायोग्रहणम् । स च मनःपर्यायज्ञाने दर्शित एव, अन्यत्राऽपि च यथासंभवं द्रष्टव्यः ॥ इति गाथार्थः ॥८४॥" - विशेषाव० मलधारि० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org