________________
प्रथमं परिशिष्टम् - टिप्पनानि
वगच्छतीत्यभिनिबोधो ज्ञानम्, क्षयोपशमो वा । सो वाऽभिणिबुज्झए त्ति अथवाऽभिनिबुध्यते वस्त्वभिगच्छतीत्यभिनिबोधः । असावात्मैव, ज्ञान- ज्ञानिनोः कथञ्चिदव्यतिरेकादिति, स एवाऽऽभिनिबोधिकम् । तओ वा तमिति न केवलम् अत्थाभिमुहो नियओ इत्यादिव्युत्पत्त्याssभिनिबोधकमुक्तम् ; किन्तु यतः तं तेण तओ तम्मि इत्यादि व्युत्पत्त्यन्तरमस्ति, ततोऽपि कारणात् तदाभिनिबोधिकमुच्यत इत्यर्थः । नन्वात्म - क्षयोपशमयोराभिनिबोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं समानाधिकरणता स्यात् ? सत्यम्, किन्तु ज्ञानस्याऽऽत्माश्रयत्वात्, क्षयोपशमस्य च ज्ञानकारणत्वादुपचारतोऽत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वर्तते, ततश्चाऽऽभिनिबोधिकं च तज्ज्ञानं चाभिनिबोधिकज्ञानमिति समानाधिकरणसमास इत्यदोषः ॥
अथ श्रुतव्युत्पत्तिमाह- तं तेणेत्यादि श्रूयत आत्मना तदिति श्रुतं शब्दः, अथवा श्रूयतेऽनेन श्रुतज्ञानावरणक्षयोपशमेन, श्रूयते तस्मात् क्षयोपशमात्, श्रूयते तस्मिन् क्षयोपशमे श्रुतं क्षयोपशमः । सुणेइ सो व त्ति शृणोतीति श्रुतम् असावात्मेति वा व्युत्पत्तिरित्यर्थः । सुयं तेणेति येनैवं व्युत्पत्तिस्तेन कारणेन श्रुतमुच्यत इत्यर्थः । इह च शब्दस्य श्रुतज्ञानकारणत्वात् क्षयोपशमस्य तद्धेतुत्वादात्मनश्च कथञ्चित् तदव्यतिरेकादुपचारतः श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् ॥ इति गाथार्थः ॥८१॥” विशेषाव० मलधारि० ॥
-
१९९
66
[पृ० ५९५ ] “ अथाऽवधेर्व्युत्पादनार्थमाह- तेणाव हीयए तम्मि वाऽवहाणं Fasar H माया । जं ती दव्वाइ परोप्परं मुणइ तओऽवहित्ति ॥ ८२ ॥ व्या० ततः कारणादवधिरित्युच्यते । यतः किम् ?, इत्याह- तेणाव हीयए त्ति अवशब्दस्याऽव्ययत्वेनाऽनेकार्थत्वादधोऽधो विस्तृतं धीयते परिच्छिद्यते रूपि वस्तु तेन ज्ञानेनेत्यवधिः, अथवा अव मर्यादया एतावत्क्षेत्रं पश्यन् एतावन्ति द्रव्याणि एतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते रूपि वस्तु तेनेत्यवधिः । तम्मि वत्ति अथवा अवशब्दस्यार्थद्वयं तथैवाऽवधीयते जीवेन तस्मिन् सति वस्त्वित्यवधिः, अकारस्य लुप्तस्याऽदर्शनात् अवहाणं ति वाशब्दोऽनुवर्तते; ततश्चाऽथवाऽवधानमवधिः साक्षादर्थपरिच्छेदनमित्यर्थः, अथवाऽवधीयते तस्माज्जीवेन साक्षाद् वस्त्वित्यवधिरित्युपलक्षणव्याख्यानात् स्वयमेव द्रष्टव्यम् । सो य मज्जायत्ति स चोक्तस्वरूपोऽवधिर्मर्यादयाऽर्थपरिच्छेदने प्रवर्तमानत्वादुपचारतो मर्यादा । एतदेवाह - जं तीए इत्यादि पुंलिङ्गोऽप्यवधिशब्दः प्राकृतत्वात् स्त्रीत्वेन निर्दिष्टः, ततश्च यद् यस्मात् कारणात् तेनाऽनन्तरोक्तेनाऽवधिना जीवो द्रव्यादि मुणति जानाति । कथंभूतं सत् ?, इत्याह- परस्परं नियमितमिति शेषः । वक्ष्यति च - अंगुलमावलिआणं भागमसंखेज दोसु संखेज्जा । अंगुलमावलिअन्तो आवलिआ अंगुलपुहत्तं ॥ | १ || हत्थम्मि मुहुत्तन्तो दिवसंतो गाउयम्मि बोधव्वो [विशेषाव०६०८- ९] इत्यादि ॥
तस्मादनया परस्परोपनिबन्धलक्षणया मर्यादया यतो जीवस्तेनाऽवधिना द्रव्यादिकं मुणति [ जानाति ] ततोऽवधिरप्युपचाराद् मर्यादेति भावः । अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम्, इति प्रक्रमलब्धेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org