________________
प्रथमं परिशिष्टम्- टिप्पनानि
[पृ० ५८७] " सम्प्रति भाषासमितिनिरूपणायाह- हितमितासन्दिग्धानवद्यार्थनियतभाषणं भाषासमितिः ।। टी० हितमितेत्यादि । आत्मने परस्मै हितमायत्यामुपकारकं मुखवसनाच्छादितास्यता, नातिबहु प्रयोजनमात्रसाधकं मितम्, असन्दिग्धं सूक्तम् अर्थवर्णप्रतिपत्तौ वा न सन्देहकारि निरवद्यार्थमनुपघातकं षण्णां जीवकायानाम्, एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः ॥' तत्त्वार्थ० सिद्धसेन० ९ |५||
१९८
-
[पृ०५९४] “किं पुनस्तत् ?, इत्याह- अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ ॥ १११९ ॥ व्या० अर्थमेवाऽर्हन् भाषते, न सूत्रं द्वादशाङ्गरूपम्। गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बह्वर्थं चेत्यर्थः ; अथवा, नियताः प्रमाणनिश्चित गुणा यत्र तद् नियतगुणं निगुणं ग्रथ्नन्ति । ततः शासनस्य हितार्थं सूत्रं प्रवर्तते ॥ इति निर्युक्तिगाथाक्षरार्थः ॥१११९॥ तत्राऽऽभिनिबोधिकज्ञानशब्दार्थं दर्शयन्नाह - अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सो चेवाऽऽभिणिबोहिअमहव जहाजोगमाउज्जं ॥८०॥ व्या० बोधनं बोधः, 'ऋ गतौ' अर्यते गम्यते ज्ञायत इत्यर्थः, तस्याभिमुखस्तद्ग्रहणप्रवणः, अर्थबलाssयातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः, अयमभिशब्दस्याऽर्थो दर्शितः, एवंभूतश्च बोधः क्षयोपशमाद्यपाटवेऽनिश्चयात्मकोऽपि स्यात्, अतो नियतो निश्चित इति निशब्देन विशिष्यते - रसाद्यपोहेन ' रूपमेवेदम्' इत्यवधारणात्मक इत्यर्थः । उक्तं च- 'एवमवग्रहोऽपि निश्चितमवगृह्णाति, कार्यत उपलब्धेः ' अन्यथाऽवग्रहकार्यभूतोऽपायोऽपि निश्चयात्मको न स्यादिति भावः । आह- ननु नियतोऽर्थाभिमुख एव भवति, ततो नियतत्वविशेषणमेवाऽस्तु, किमाभिमुख्यविशेषणेन ? । तदयुक्तम्, द्विचन्द्रज्ञानस्य तैमिरिकं प्रति नियतत्वे सत्यप्यर्थाभिमुख्याभावादिति । एवं च सति अर्थाभिमुखो नियतो यो बोधः स तीर्थकर - गणधरादीनामभिनिबोधो मतोऽभिप्रेतः । सो चेवाभिणिबोहियमिति स एवाऽभिनिबोध एवाऽऽभिनिबोधिकम्, विनयादिपाठादभिनिबोधशब्दस्य 'विनयादिभ्यष्ठक् [पा० ५|४ | ३४] इत्यनेन स्वार्थ एव ठक्प्रत्ययः; यथा विनय एव वैनयिकमिति अहव जहाजोगमाउज्जं ति, अथवा नेह स्वार्थिकप्रत्ययो विधीयते, किन्तु यथायोगं यथासंबन्धमायोजनीयं घटमानसंबन्धानुसारेण स्वयमेव वक्तव्यमित्यर्थः, तद्यथा - अर्थाभिमुखे नियते बोधे भवमाभिनिबोधिकम्, तेन वा निर्वृत्तम्, तन्मयं वा, तत्प्रयोजनं वाऽऽभिनिबोधिकम्, तच्च तज्ज्ञानं चाऽऽभिनिबोधिकज्ञानम् ॥ इति गाथार्थः ||८०|| तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम् । अथवा ज्ञानम्, क्षयोपशमः, आत्मा वा तद्वाच्य इति दर्शयन्नाह - तं तेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा तं । तं तमिव सुइ सो वा सुअं तेणं ॥ ८१ ॥ व्या० तं ति आभिमुख्येन निश्चितत्वेन संवेदयते आत्मा तदित्यभिनिबोधोऽवग्रहादिज्ञानम्, स एवाऽऽभिनिबोधिकम्, अथवा आत्मा तेन प्रस्तुतज्ञानेन, तदावरणक्षयोपशमेन वा करणभूतेन घटादि वस्त्वभिनिबुध्यते, तस्माद् वा प्रकृतज्ञानात्, क्षयोपशमाद्वाऽभिनिबुध्यते; तस्मिन् वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनिबुध्यतेऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org