________________
प्रथमं परिशिष्टम् - टिप्पनानि
[पृ० ५९६] “तदेवं ज्ञानपञ्चकस्याप्यभिधानार्थे कथिते आह कश्चित् - नन्वादी मतिश्रुतोपन्यासः किमर्थः ? इति । अत्राऽऽचार्यः प्राह- जं सामि-काल- कारण - विसय-परोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाणि य तेणाईए मड़ - सुयाई ॥ ८५ ॥ व्या० तेन कारणेनादौ मति श्रुते निर्दिष्टे ।
किम् ?, इत्याह-जं सामीत्यादि इति संटङ्कः । मतिशब्दोऽत्राऽऽभिनिबोधिकसमानार्थो द्रष्टव्यः, आभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यप्युच्यते । यद् यस्मात् कारणात् स्वामि-कालकारण-विषय-परोक्षत्वैस्तुल्ये समानस्वरूपे मति - श्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः । तत्र स्वामी तावदनयोरेक एव ' जत्थ मइनाणं तत्थ सुयनाणं' इत्याद्यागमवचनादिति । कालोऽपि द्विधानानाजीवापेक्षया, एकजीवापेक्षया च । स चाऽयं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवावापेक्षा द्वयोरपि सर्वकालमनुच्छेदाद्; एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेक सागरोपमषट्षष्टिस्थितिकत्वेनाऽत्रैवाऽभिधास्यमानत्वादिति । कारणमपीन्द्रिय-मनोलक्षणं स्वावरणक्षयोपशमस्वरूपं च द्वयोरपि समानम् । उभयस्याऽपि सर्वद्रव्यादिविषयत्वाद् विषयतुल्यता । परनिमित्तत्वाच्च परोक्षत्वसमता। ननु यद्येवमनयोः परस्परं तुल्यता, तर्ह्येकत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् ?, इत्याह- तब्भावे इत्यादि तद्भावे मति - श्रुतज्ञानसद्भाव एव शेषाण्यवध्यादीन ज्ञानान्यवाप्यन्ते; नान्यथा, न हि स कश्चित् प्राणी भूतपूर्वः, अस्ति, भविष्यति वा, यो मतिश्रुतज्ञाने अनासाद्य प्रथममेवाऽवध्यादीनि शेषज्ञानानि प्राप्तवान् प्राप्नोति, प्राप्स्यति वेति भावः । ततस्तदवाप्तौ शेषज्ञानाऽवाप्तेश्चादौ मति - श्रुतोपन्यासः ॥ इति गाथार्थः ॥८५॥
भवतु तर्ह्यादौ मति - श्रुतोपादानम्, केवलं पूर्वं मतिः, पश्चात्तु श्रुतमित्यत्र किं कारणम्, यावता विपर्ययोऽपि कस्माद् न भवति ?, इत्याह- मइपुव्वं जेण सुयं तेणाईए मई, विसो वा । मइभेओ चेव सुयं तो मइसमणंतरं भणियं ॥ ८६ ॥ व्या० मतिः पूर्वं प्रथममस्येति मतिपूर्वं येन कारणेन श्रुतज्ञानम्, तेन श्रुतस्यादौ मतिः, तीर्थकर - गणधरैरुक्तेति शेषः, न ह्यवग्रहादिरूपे मतिज्ञाने पूर्वमप्रवृत्ते कापि श्रुतप्रवृत्तिरस्तीति भावः । विसिट्ठो वा मइभेओ चेव सुयं ति यदि वा इन्द्रियाऽनिन्द्रियनिमित्तद्वारेणोपजायमानं सर्वं मतिज्ञानमेव, केवलं परोपदेशादागमवचनत्वाच्च भवन् विशिष्टः कश्चिद् मतिभेद एव श्रुतम् ; नान्यत् । ततो मूलभूताया मतेरादौ विन्यासः, तद्भेदरूपं तु श्रुतज्ञानं तत्समनन्तरं भणितमित्यदोषः । 'मइपुव्वं जेण सुयं' इत्यादिकश्चाऽर्थः पुरतः प्रपञ्चेन भणिष्यते ॥ इति गाथार्थः ।।८६।। अथ मतिश्रुतानन्तरमवधेः, तत्समनन्तरं च मनः पर्यायज्ञानस्योपन्यासे कारणमाहकाल- विवज्जय - सामित्त-लाभसाहम्मओऽवही तत्तो । माणसमित्तो छउमत्थ-विसयभावादिसामण्णा ||८७।। व्या० ततो मति - श्रुताभ्यामनन्तरमवधिर्निर्दिष्टः । कुतः ?, इत्याह- कालविपर्यय-स्वामित्व - लाभसाधर्म्यात् । तत्र नानाजीवापेक्षया, एकजीवापेक्षया च मति - श्रुताभ्यां सहाऽवधेः समानस्थितिकालत्वात् कालसाधर्म्यम् । यथा च मिथ्यात्वोदये मति-श्रुतज्ञाने अज्ञानरूपं
Jain Education International
For Private & Personal Use Only
१२१
www.jainelibrary.org