Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 540
________________ प्रथमं परिशिष्टम- टिप्पनानि १२५ उपलक्षणत्वान्मनुष्यत्वं च लब्ध्वेति, अपिशब्दस्य गम्यमानत्वात् लब्ध्वापि- अवाप्यापि श्रद्धा रुचिरूपा प्रक्रमाद्धर्मविषयैव परमदुर्लभा अतिशयदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याहश्रुत्वा आकर्ण्य, न्यायेन चरति- प्रवर्त्तते नैयायिकः, न्यायोपपन्न इत्यर्थः, तं मार्गम् सम्यग्दर्शनाद्यात्मकं मुक्तिपथं बहवः नैक एव, परि इति सर्वप्रकारं 'भस्सईत्ति भ्रश्यन्ति- च्यवन्ते प्रक्रमान्नैयायिकमार्गादेव, यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तच्चिन्तामणिवत् परमदुर्लभमेवेति भावः ॥१०४॥" - उत्तरा० पाईय० ३९ ॥ “धम्मं पि हु सद्दहंतया, दुल्लभया काएण फासया । इह कामगुणेहिं मुच्छिया समयं गोयम ! मा पमायए ॥३१०॥ वृ० अन्यच्च- धर्मं प्रक्रमात् सर्वज्ञप्रणीतम् अपि: भिन्नक्रमः हुः वाक्यालङ्कारे, ततः श्रद्दधतोऽपि कर्तुमभिलषन्तोऽपि दुर्लभकाः कायेन शरीरेण, उपलक्षणत्वान्मनसा वाचा च, स्पर्शका अनुष्ठातारः, कारणमाह- इह अस्मिन् जगति कामगुणेषु शब्दादिषु मूर्च्छिता मूढाः, गृद्धिमन्त इत्यर्थः, जन्तव इति शेषः, प्रायेण ह्यपथ्येष्वेव विषयेष्वभिष्वङ्गः प्राणिनाम्, यत उक्तम्- ‘प्रायेण हि यदपथ्यं तदेव चाऽऽतुरजनप्रियं भवति । विषयातुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः ॥' [ ] पाठान्तरतः कामगुणैर्मूर्च्छिता इव मूर्च्छिताः, विलुप्तधर्मविषयचैतन्यत्वात्, यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति ॥३१०॥" - उत्तरा० पाईय० १०१२० ॥ [पृ०६११] “वज्जरिसहनारायं, पढमं बीयं च रिसभनारायं । नारायमद्धनारायं कीलिआ तह य छेवढं ॥१७३॥ व्या० प्रथमं संहननं वज्रर्षभनाराचम्, द्वितीयमृषभनाराचम्, तृतीयं नाराचम्, चतुर्थमर्धनाराचम्, पञ्चमं कीलिका, षष्ठं सेवार्तम् । तत्र वज्रं कीलिका, ऋषभः परिवेष्टनपट्टः, नाराचमुभयतो मर्कटबन्धः ॥१७३।। तथा चाह- रिसहो अ होइ पट्टो, वज्जं पुण कीलिया मुणेयव्वा । उभओ मक्कडबंध, नारायं तं वियाणाहि ॥१७४॥ व्या० सुगमा । ततो द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति, तद्वज्रर्षभनाराचसंज्ञं प्रथम संहननम् । यत् पुनः कीलिकारहितं संहननं भवति, तदृषभनाराचं द्वितीयं संहननम् । यत्र त्वस्थ्नोर्मर्कटबन्ध एव केवलो भवति, तन्नाराचसंज्ञं तृतीयं संहननम् । यत्र पुनरेकपार्श्वे मर्कटबन्धो द्वितीयपार्श्वे च कीलिका तदर्धनाराचसंज्ञं चतुर्थं संहननम्। तथा यत्रास्थीनि कीलिकामात्रबद्धान्येव भवन्ति, तत् कीलिकाख्यं पञ्चमं संहननम् । यत्र पुनः परस्परं पर्यन्तमात्रसंस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति, नित्यमेव च स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षन्ते, तत्सेवार्तं षष्ठं संहननमिति ॥१७४॥" - बृहत्संग्रहणी० मलय० । [पृ०६१२] “एतदेव संस्थानव्याख्यानमाह- तुलं वित्थडबहुलं, उस्सेहबहुं च मडहकोठं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579