________________
प्रथमं परिशिष्टम- टिप्पनानि
१२५ उपलक्षणत्वान्मनुष्यत्वं च लब्ध्वेति, अपिशब्दस्य गम्यमानत्वात् लब्ध्वापि- अवाप्यापि श्रद्धा रुचिरूपा प्रक्रमाद्धर्मविषयैव परमदुर्लभा अतिशयदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याहश्रुत्वा आकर्ण्य, न्यायेन चरति- प्रवर्त्तते नैयायिकः, न्यायोपपन्न इत्यर्थः, तं मार्गम् सम्यग्दर्शनाद्यात्मकं मुक्तिपथं बहवः नैक एव, परि इति सर्वप्रकारं 'भस्सईत्ति भ्रश्यन्ति- च्यवन्ते प्रक्रमान्नैयायिकमार्गादेव, यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तच्चिन्तामणिवत् परमदुर्लभमेवेति भावः ॥१०४॥" - उत्तरा० पाईय० ३९ ॥
“धम्मं पि हु सद्दहंतया, दुल्लभया काएण फासया । इह कामगुणेहिं मुच्छिया समयं गोयम ! मा पमायए ॥३१०॥ वृ० अन्यच्च- धर्मं प्रक्रमात् सर्वज्ञप्रणीतम् अपि: भिन्नक्रमः हुः वाक्यालङ्कारे, ततः श्रद्दधतोऽपि कर्तुमभिलषन्तोऽपि दुर्लभकाः कायेन शरीरेण, उपलक्षणत्वान्मनसा वाचा च, स्पर्शका अनुष्ठातारः, कारणमाह- इह अस्मिन् जगति कामगुणेषु शब्दादिषु मूर्च्छिता मूढाः, गृद्धिमन्त इत्यर्थः, जन्तव इति शेषः, प्रायेण ह्यपथ्येष्वेव विषयेष्वभिष्वङ्गः प्राणिनाम्, यत उक्तम्- ‘प्रायेण हि यदपथ्यं तदेव चाऽऽतुरजनप्रियं भवति । विषयातुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः ॥' [ ] पाठान्तरतः कामगुणैर्मूर्च्छिता इव मूर्च्छिताः, विलुप्तधर्मविषयचैतन्यत्वात्, यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति ॥३१०॥" - उत्तरा० पाईय० १०१२० ॥
[पृ०६११] “वज्जरिसहनारायं, पढमं बीयं च रिसभनारायं । नारायमद्धनारायं कीलिआ तह य छेवढं ॥१७३॥ व्या० प्रथमं संहननं वज्रर्षभनाराचम्, द्वितीयमृषभनाराचम्, तृतीयं नाराचम्, चतुर्थमर्धनाराचम्, पञ्चमं कीलिका, षष्ठं सेवार्तम् । तत्र वज्रं कीलिका, ऋषभः परिवेष्टनपट्टः, नाराचमुभयतो मर्कटबन्धः ॥१७३।।
तथा चाह- रिसहो अ होइ पट्टो, वज्जं पुण कीलिया मुणेयव्वा । उभओ मक्कडबंध, नारायं तं वियाणाहि ॥१७४॥ व्या० सुगमा । ततो द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति, तद्वज्रर्षभनाराचसंज्ञं प्रथम संहननम् । यत् पुनः कीलिकारहितं संहननं भवति, तदृषभनाराचं द्वितीयं संहननम् । यत्र त्वस्थ्नोर्मर्कटबन्ध एव केवलो भवति, तन्नाराचसंज्ञं तृतीयं संहननम् । यत्र पुनरेकपार्श्वे मर्कटबन्धो द्वितीयपार्श्वे च कीलिका तदर्धनाराचसंज्ञं चतुर्थं संहननम्। तथा यत्रास्थीनि कीलिकामात्रबद्धान्येव भवन्ति, तत् कीलिकाख्यं पञ्चमं संहननम् । यत्र पुनः परस्परं पर्यन्तमात्रसंस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति, नित्यमेव च स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षन्ते, तत्सेवार्तं षष्ठं संहननमिति ॥१७४॥" - बृहत्संग्रहणी० मलय० ।
[पृ०६१२] “एतदेव संस्थानव्याख्यानमाह- तुलं वित्थडबहुलं, उस्सेहबहुं च मडहकोठं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org