________________
१२४
प्रथमं परिशिष्टम्- टिप्पनानि मनोवाक्कायलक्षणानाम् अप्रशस्तानाम् अशोभनानां प्रतिक्रमणम्, ते च प्रतिक्रान्तव्या इति गाथार्थः ॥१२५०॥" - आव० हारि० ।
[पृ०६०३] “अस्य योग्यमाह- सुत्तत्थे णिम्माओ पिअदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपण्णो गंभीरो लद्धिमंतो अ॥१३१५॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी अ । एवंविहो उ भणिओ गणसामी जिणवरिंदेहिं ॥३५१६॥ सूत्रार्थे निर्मातो निष्ठितः प्रियदृढधर्म उभययुक्तः । अनुवर्त्तनाकुशल उपायज्ञो जातिकुलसम्पन्न एतद्द्वयसमन्वितो गम्भीरो महाशयो लब्धिमांश्च, उपकरणाद्यधिकृत्येति गाथार्थः ॥१३१५॥ संग्रहोपग्रहनिरतः सङ्ग्रह उपदेशादिना उपग्रहो वस्त्रादिना, व्यत्यय इत्यन्ये, कृतकरणो ऽभ्यस्तक्रियः प्रवचनानुरागी च, प्रकृत्या परार्थप्रवृत्त एवंविध एव भणित: प्रतिपादितो गणस्वामी गच्छधरो जिनवरेन्द्रर्भगवद्भिरिति गाथार्थः ॥१३१६।। - पञ्चवस्तुकटीका।
[पृ० ६०८] “एयं पुण एवं खलु अण्णाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिदियाईणं ॥१६॥ व्या० एतन्मनुजत्वम्, पुनः शब्दो विशेषणार्थः । ततश्चायमर्थः- प्राक् सामान्येन मनुजत्वदुर्लभत्वमुक्तम्, सांप्रतं तदेवोपपत्तिभिः साध्यत इति । एवं खलु त्ति एवमेव दुर्लभमेव । कुत इत्याह- अज्ञानप्रमाददोषत: अज्ञानदोषात् सदसद्विवेचनविरहापराधात् प्रमाददोषाच्च विषयासेवनादिरूपाज्ज्ञेयमवगन्तव्यम् । एतदाविष्टो हि जीव एकेन्द्रियादिजातिषु दूरं मनुजत्वविलक्षणासु अरघट्टघटीयन्त्रक्रमेण पुनः पुनरावर्त्तते एतदपि कथं सिद्धमित्याह- यत्कारणाद्दीर्घा द्राघीयसी कायस्थिति: पुनः पुनः मृत्वा तत्रैव काये उत्पादलक्षणा भणिता प्रतिपादिता सिद्धान्ते एकेन्द्रियादीनामेकेन्द्रियद्वीन्द्रियादिलक्षणानां जीवानामिति ॥१६॥
एसा य असइदोसासेवणओ धम्मवजचित्ताणं । ता धम्मे जइयव्वं सम्मं सइ धीरपुरिसेहिं ॥१८॥ व्या० एषां चेयं पुनर्दोघीयसी स्थितिः असकृदनेकवारान् अनेकेषु भवेष्वित्यर्थः, दोषासेवनत: दोषाणां राहुमण्डलवत् शशधरकरनिकरवातस्पर्द्धिस्वभावस्य जीवस्य मालिन्याधायकतया दूषकाणां निविडवेदोदयाज्ञानभयमोहादीनां यदासेवनं मनोवाक्कायैः कृतकारितानुमतिसहायैराचरणं तस्मात् । केषामित्याह- धर्मबाह्यचित्तानां श्रुतधर्माच्चारित्रधर्माच्च सर्वथा बाह्मचित्तानां स्वप्नायमानावस्थायामपि तत्रानवतीर्णमानसानामित्यर्थः । यत एवम्, ता इति तस्माद्धर्मे उक्तलक्षणे एव एकान्तेनैवैकेन्द्रियादिजातिप्रवेशनिवारणकारिणि भवोद्भवभूरिदुःखज्वलनविध्यापनवारिणि यतितव्यं सर्वप्रमादस्थानपरिहारेणोद्यमः कार्यः सम्यग् मार्गानुसारिण्या प्रवृत्त्या स्वसामर्थ्यालोचनसारं सदा सर्वास्ववस्थासु धीरपुरुषैर्बुद्धिमद्भिः पुम्भिः ॥१८॥" - इति उपदेशपदे श्रीमुनिचन्द्रसूरि० टीका० ।
“श्रुत्यवाप्तावपि श्रद्धादुर्लभतामाह- आहच्च सवणं लर्बु, सद्धा परमदुल्लहा । सोच्चा नेयाउयं मग्गं, बहवे परिभस्सइ ॥१०४॥ वृ० आहच्च इति कदाचित् श्रवणम् प्रक्रमाद्धर्माकर्णनम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org