________________
प्रथमं परिशिष्टम्- टिप्पनानि
१२३ [पृ० ५९८] “अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणु भासणासुद्धं ॥२४९॥ अधुनाऽनुभाषणशुद्धं प्रतिपादयन्नाह- कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनम्, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते ?- अक्षरपदव्यञ्जनैः परिशुद्धम्, अनेनानुभाषणायत्नमाह, णवरं गुरू भणति वोसिरति, इमोवि भणति- वोसिरामो'त्ति, सेसं गुरुभणितसरिसं भाणितव्वं । किंभूतः सन् ?, कृतप्राञ्जलिरभिमुखस्तजानीह्यनुभाषणाशुद्धमिति गाथार्थः ॥२४९॥
कंतारे दुब्भिक्खे आयंके वा महई समुप्पन्ने । जं पालियं न भग्गं तं जाणणु पालणासुद्धं ॥२५०॥ साम्प्रतमनुपालनाशुद्धमाह- कान्तारे अरण्ये दुर्भिक्षे कालविभ्रमे आतङ्के वा ज्वरादौ महति समुत्पन्ने सति यत् पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति । एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा दस एते सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसु ण भज्जति त्ति गाथार्थः ॥२५०॥
रागेण व दोसेण व परिणामेण व न दूसियं जं तु । तं खलु पच्चक्खाणं भावाविसुद्धं मुणेयव्वं ॥२५१॥ इदानीं भावशुद्धमाह- रागेण वा अभिष्वङ्गलक्षणेन द्वेषेण वा अप्रीतिलक्षणेन, परिणामेन च इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषितं न कलुषितं यत् तु यदेव तत् खल्विति तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भावविशुद्धं मुणेयव्वं ति ज्ञातव्यमिति गाथासमासार्थः ॥ अवयवत्थो पुण-रागेण एस पूइज्जदित्ति अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहुत्तो पडति तेण एतस्स ण अड्डायति एवं दोसेण, परिणामेण णो इहलोगट्ठताए णो परलोगट्ठयाए नो कित्तिजसवण्णसद्दहेतुं वा अण्णपाणवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावसुद्धं ॥२५१॥
पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ॥२४७॥ ज्ञानशुद्ध प्रतिपाद्यते, तत्र- प्रत्याख्यानं जानाति अवगच्छति कल्पे जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तजानीहि ज्ञानशुद्धमिति गाथार्थः ॥२४७॥" - आव० हारि० ।।
[पृ० ५९९] “अधुना प्रतिक्रान्तव्यमुच्यते, तत्पुनरोघतः पञ्चधा भवतीति, आह च नियुक्तिकार:मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१२५०॥ व्या० मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैर्मिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव असंयमे असंयमविषये प्रतिक्रमणम्, असंयमः प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, कषायाणां प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणम्, कषायाः प्रतिक्रान्तव्याः, योगानां च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org