SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ १२६ प्रथमं परिशिष्टम्- टिप्पनानि. च। हेट्टिल्लकायमडहं सव्वत्थासंट्ठियं हुंडं ॥१७६॥ व्या० समचतुरस्र संस्थानं तुल्यं सर्वासु दिक्षु शास्त्रोक्तेन प्रकारेण समप्रमाणम् । न्यग्रोधमण्डलं नाभेरुपरि विस्तृतबहुलं विस्तारबहुलम् । सादिसंस्थानमुत्सेधबहूत्सेधबहुलं प्रमाणोपपन्नोत्सेधमित्यर्थः । वामनं मडभकोष्ठं मडभो न्यूनाधिकप्रमाणः कोष्ठो यत्र तन्मडभकोष्ठं परिपूर्णप्रमाणपाणिपादशिरोग्रीवाद्यवयवं न्यूनाधिकप्रमाणकोष्ठं वामनमित्यर्थः। कुब्जमधस्तनकायमडभमधस्तनाः पाणिपादशिरोग्रीवादिरूपा अवयवा मडभा यस्य तत्तथा यत् प्रमाणहीनहस्तपादशिरोग्रीवाद्यवयवं परिपूर्णप्रमाणकोष्ठं तत् कुब्जमित्यर्थः। अन्ये तु वामनकुब्जयोर्व्यत्यासेन लक्षणं प्रतिपेदिरे, अधस्तनकायमडभं वामनं मडभकोष्ठं कुब्जमिति । तथा सर्वत्र सर्वेषु शरीरावयवेष्वसंस्थितं न शास्त्रोक्तेन प्रमाणेन संस्थितं तत् हुण्डं हुण्डसंस्थानमिति ॥१७६॥" - बृहत्संग्रहणी० मलय० । [पृ० ६१५-१६] “एनामेव गाथां विवृणोति- नत्थि छुहाए सरिसा वियणा भुंजेज तप्पसमणट्ठा। छाओ वेयावच्चं ण तरइ काउं अओ भुंजे ॥६६३॥ इरिअं नऽवि सोहेई पेहाईअं च संजमं काउं । धामो वा परिहायइ गुणऽणुप्पेहासु अ असत्तो ॥६६४॥ नास्ति क्षुधासदृशी वेदना, उक्तं च- पंथसमा नत्थि जरा दारिद्दसमो य परिभवो नत्थि । मरणसमं नत्थि भयं छुहासमा वेयणा नत्थि ॥१॥ तं नत्थि जं न वाहइ तिलतुसमित्तं पि एत्थ कायस्स । सन्निझं सव्वदुहाई देंति आहाररहियस्स ॥२॥ [ ] ततस्तत्प्रशमनार्थं भुञ्जीत, छातो बुभुक्षितः सन् वैयावृत्यं कर्तुं न शक्नोति, तथा चोक्तम्- गलइ बलं उच्छाहो अवेइ सिढिलेइ सयलवावारे । नासइ सत्तं अरई विवड्डए असणरहियस्स ॥१॥ [ ] अतो वैयावृत्यकरणाय भुञ्जीत । एवमीर्यापथशोधनादीन्यपि कारणानि भाव्यानि ॥६६३-६६४॥ आयंको जरमाई रायासन्नायगाइ उवसग्गो । बंभवयपालणट्ठा पाणिदया वासमहियाई॥ तवहेउ चउत्थाई जाव उ छम्मासिओ तवो होइ । छटुं सरीखोच्छेयणट्ठया होअणाहारो॥६६७६६८॥ आतङ्को ज्वरादिस्तत्र न भुञ्जीत, यत उक्तम्-ब्रह्मावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥१॥ [ ] तथा राजस्वजनादिकृतोपसर्गे च, तथा ब्रह्मव्रतपालनार्थम्, तथा वर्षे वर्षन्ति महिकायां वा निपतन्त्यां प्राणिदयार्थं नाश्नीयात् ॥६६७।। तवहेउ.... तपोहेतोर्न भुञ्जीत, तपश्चतुर्थादि यावत् षण्मासिकं भवति, षष्ठं पुनः प्रागुक्तविधिना चरमकाले शरीरव्यवच्छेदार्थं भवत्यनाहारः ॥६६८॥” इति पिण्डनि० क्षमारत्न० [पृ० ६१७] “चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते ॥ यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥२४॥७॥ वृ० चित्तं मनस्तद्रत्नमिव चित्तरत्नं निर्मलस्वभावत्वोपाधिजनितविकारत्वादिसाधर्म्यात्, असंक्लिष्टं रागादिसंक्लेशवर्जितम्, आन्तरम् आध्यात्मिकम्, धनं वसु, उच्यते अभिधीयते, यस्य देहिनः, तत् चित्तरत्नम्, मुषितम् अपतहृतम्, दोषैः रागादिभिः तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy