Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 536
________________ प्रथमं परिशिष्टम् - टिप्पनानि [पृ० ५९६] “तदेवं ज्ञानपञ्चकस्याप्यभिधानार्थे कथिते आह कश्चित् - नन्वादी मतिश्रुतोपन्यासः किमर्थः ? इति । अत्राऽऽचार्यः प्राह- जं सामि-काल- कारण - विसय-परोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाणि य तेणाईए मड़ - सुयाई ॥ ८५ ॥ व्या० तेन कारणेनादौ मति श्रुते निर्दिष्टे । किम् ?, इत्याह-जं सामीत्यादि इति संटङ्कः । मतिशब्दोऽत्राऽऽभिनिबोधिकसमानार्थो द्रष्टव्यः, आभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यप्युच्यते । यद् यस्मात् कारणात् स्वामि-कालकारण-विषय-परोक्षत्वैस्तुल्ये समानस्वरूपे मति - श्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः । तत्र स्वामी तावदनयोरेक एव ' जत्थ मइनाणं तत्थ सुयनाणं' इत्याद्यागमवचनादिति । कालोऽपि द्विधानानाजीवापेक्षया, एकजीवापेक्षया च । स चाऽयं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवावापेक्षा द्वयोरपि सर्वकालमनुच्छेदाद्; एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेक सागरोपमषट्षष्टिस्थितिकत्वेनाऽत्रैवाऽभिधास्यमानत्वादिति । कारणमपीन्द्रिय-मनोलक्षणं स्वावरणक्षयोपशमस्वरूपं च द्वयोरपि समानम् । उभयस्याऽपि सर्वद्रव्यादिविषयत्वाद् विषयतुल्यता । परनिमित्तत्वाच्च परोक्षत्वसमता। ननु यद्येवमनयोः परस्परं तुल्यता, तर्ह्येकत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् ?, इत्याह- तब्भावे इत्यादि तद्भावे मति - श्रुतज्ञानसद्भाव एव शेषाण्यवध्यादीन ज्ञानान्यवाप्यन्ते; नान्यथा, न हि स कश्चित् प्राणी भूतपूर्वः, अस्ति, भविष्यति वा, यो मतिश्रुतज्ञाने अनासाद्य प्रथममेवाऽवध्यादीनि शेषज्ञानानि प्राप्तवान् प्राप्नोति, प्राप्स्यति वेति भावः । ततस्तदवाप्तौ शेषज्ञानाऽवाप्तेश्चादौ मति - श्रुतोपन्यासः ॥ इति गाथार्थः ॥८५॥ भवतु तर्ह्यादौ मति - श्रुतोपादानम्, केवलं पूर्वं मतिः, पश्चात्तु श्रुतमित्यत्र किं कारणम्, यावता विपर्ययोऽपि कस्माद् न भवति ?, इत्याह- मइपुव्वं जेण सुयं तेणाईए मई, विसो वा । मइभेओ चेव सुयं तो मइसमणंतरं भणियं ॥ ८६ ॥ व्या० मतिः पूर्वं प्रथममस्येति मतिपूर्वं येन कारणेन श्रुतज्ञानम्, तेन श्रुतस्यादौ मतिः, तीर्थकर - गणधरैरुक्तेति शेषः, न ह्यवग्रहादिरूपे मतिज्ञाने पूर्वमप्रवृत्ते कापि श्रुतप्रवृत्तिरस्तीति भावः । विसिट्ठो वा मइभेओ चेव सुयं ति यदि वा इन्द्रियाऽनिन्द्रियनिमित्तद्वारेणोपजायमानं सर्वं मतिज्ञानमेव, केवलं परोपदेशादागमवचनत्वाच्च भवन् विशिष्टः कश्चिद् मतिभेद एव श्रुतम् ; नान्यत् । ततो मूलभूताया मतेरादौ विन्यासः, तद्भेदरूपं तु श्रुतज्ञानं तत्समनन्तरं भणितमित्यदोषः । 'मइपुव्वं जेण सुयं' इत्यादिकश्चाऽर्थः पुरतः प्रपञ्चेन भणिष्यते ॥ इति गाथार्थः ।।८६।। अथ मतिश्रुतानन्तरमवधेः, तत्समनन्तरं च मनः पर्यायज्ञानस्योपन्यासे कारणमाहकाल- विवज्जय - सामित्त-लाभसाहम्मओऽवही तत्तो । माणसमित्तो छउमत्थ-विसयभावादिसामण्णा ||८७।। व्या० ततो मति - श्रुताभ्यामनन्तरमवधिर्निर्दिष्टः । कुतः ?, इत्याह- कालविपर्यय-स्वामित्व - लाभसाधर्म्यात् । तत्र नानाजीवापेक्षया, एकजीवापेक्षया च मति - श्रुताभ्यां सहाऽवधेः समानस्थितिकालत्वात् कालसाधर्म्यम् । यथा च मिथ्यात्वोदये मति-श्रुतज्ञाने अज्ञानरूपं Jain Education International For Private & Personal Use Only १२१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579