Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
________________
१२२
प्रथमं परिशिष्टम् - टिप्पनानि
विपर्ययं प्रतिपद्येते, तथाऽवधिरपि, इति विपर्ययसाधर्म्यम् । य एव च मति - श्रुतयोः स्वामी स वाऽवधेरपि इति स्वामिसाधर्म्यम् । लाभोऽपि कदाचित् कस्यचिदमीषां त्रयाणामपि ज्ञानानां युगपदेव भवति, इति लाभसाधर्म्यम् । माणसमित्तो इत्यादि इतोऽवधेरनन्तरं मनोविषयत्वाद् मनसि भवं मानसं मनःपर्यायज्ञानं युक्तम् । कुतः ?, इत्याह- छद्मस्थ-विषय- भावादिसामान्यात्; आदिशब्दात् प्रत्यक्षत्वादिसामान्यं गृह्यते, समानस्य भावः सामान्यं साम्यं तस्मादित्यर्थः । तत्र यथाऽवधिज्ञानं छद्मस्थस्यैव भवति तथा मनः पर्यायज्ञानमपीति च्छद्मस्थसाम्यम् । उभयोरपि पुद्गलमात्रविषयत्वाद् विषयसाम्यम् । द्वयोरपि क्षायोपशमिकभाववृत्तित्वाद् भावसाम्यम् । द्वितयस्याऽपि साक्षाद्दर्शित्वात् प्रत्यक्षत्वसाम्यम् । एवमन्यापि प्रत्यासत्तिरभ्यूा || इति गाथार्थः ॥ ८७॥
अथ केवलज्ञानस्य सर्वोपरिनिर्देशे कारणमाह- अन्ते केवलमुत्तम- जइसामित्तावसाणलाभाओ । एत्थं च मइ - सुयाइं परोक्खमियरं च पच्चक्खं ॥ ८८ ॥ व्या० अन्ते सर्वज्ञानानामुपरि केवलज्ञानमभिहितम् । कुतः ?, इत्याह- भावप्रधानत्वाद् निर्देशस्य उत्तमत्वात्, सर्वोत्तमं हि केवलज्ञानम्, अतीता - ऽनागत- वर्तमाननिः शेषज्ञेयस्वरूपावभासित्वादिति । यथा च मनः पर्यायज्ञानस्य यतिरेव स्वामी, तथा केवलज्ञानस्यापि ततो यतिस्वामित्वसाम्याद् मनःपर्यायज्ञानानन्तरं केवलज्ञानमभिहितम् । तथा समस्तापरज्ञानानामवसान एवाऽस्य लाभादवसान एव निर्देश इति । तदेवमुपन्यासक्रमे समर्थिते सत्याह कश्चित् - नन्वेतानि पञ्च ज्ञानानि किं परोक्षस्वरूपाणि, आहोस्वित् प्रत्यक्षाणि ? इति । अत्राह - एत्थं चेत्यादि एतेषु पञ्चसु ज्ञानेषु मध्ये मति श्रुते परोक्षे, इतरत् त्ववध्यादि ज्ञानत्रयं प्रत्यक्षम् ॥ इति गाथार्थः ॥८८॥” विशेषाव० मलधारि० ॥
[पृ०५९७] “पच्चक्खाणं सव्वन्नुदेसिअं जं जहिं जया काले । तं जो सद्दहइ नरो तं जासु सद्दहणसुद्धं ॥ २४६ ॥ प्रत्याख्यानं सर्वज्ञभाषितं तीर्थकरप्रणीतमित्यर्थः यदिति यत् सप्तविंशतिविधस्यान्यतमम्, सप्तविंशतिविधं च पञ्चविधं साधूमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं श्रावकप्रत्याख्यानं यत्र जिनकल्पे चतुर्यामे पञ्चयामे वा श्रावकधर्मे वा यदा सुभिक्षे दुर्भिक्षे वा पूर्वाह्ने पराले वा काल इति- चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाज्जानीहि श्रद्धानशुद्धमिति गाथार्थः ॥ २४६ ॥
“विनयशुद्धमुच्यते, तत्रेयं गाथा- किइकम्मस्स विसोही पउंजई जो अहीणमइरित्तं । मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ २४८ ॥ कृतिकर्मणः वन्दनकस्येत्यर्थः विशुद्धिं निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले अन्यूनातिरिक्तां विशुद्धिं मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो विनयेन शुद्धमिति गाथार्थः ॥२४८॥” आव० हारि० ।
-
Jain Education International
"
-
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579