Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 533
________________ प्रथमं परिशिष्टम्- टिप्पनानि [पृ० ५८७] " सम्प्रति भाषासमितिनिरूपणायाह- हितमितासन्दिग्धानवद्यार्थनियतभाषणं भाषासमितिः ।। टी० हितमितेत्यादि । आत्मने परस्मै हितमायत्यामुपकारकं मुखवसनाच्छादितास्यता, नातिबहु प्रयोजनमात्रसाधकं मितम्, असन्दिग्धं सूक्तम् अर्थवर्णप्रतिपत्तौ वा न सन्देहकारि निरवद्यार्थमनुपघातकं षण्णां जीवकायानाम्, एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः ॥' तत्त्वार्थ० सिद्धसेन० ९ |५|| १९८ - [पृ०५९४] “किं पुनस्तत् ?, इत्याह- अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ ॥ १११९ ॥ व्या० अर्थमेवाऽर्हन् भाषते, न सूत्रं द्वादशाङ्गरूपम्। गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बह्वर्थं चेत्यर्थः ; अथवा, नियताः प्रमाणनिश्चित गुणा यत्र तद् नियतगुणं निगुणं ग्रथ्नन्ति । ततः शासनस्य हितार्थं सूत्रं प्रवर्तते ॥ इति निर्युक्तिगाथाक्षरार्थः ॥१११९॥ तत्राऽऽभिनिबोधिकज्ञानशब्दार्थं दर्शयन्नाह - अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सो चेवाऽऽभिणिबोहिअमहव जहाजोगमाउज्जं ॥८०॥ व्या० बोधनं बोधः, 'ऋ गतौ' अर्यते गम्यते ज्ञायत इत्यर्थः, तस्याभिमुखस्तद्ग्रहणप्रवणः, अर्थबलाssयातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः, अयमभिशब्दस्याऽर्थो दर्शितः, एवंभूतश्च बोधः क्षयोपशमाद्यपाटवेऽनिश्चयात्मकोऽपि स्यात्, अतो नियतो निश्चित इति निशब्देन विशिष्यते - रसाद्यपोहेन ' रूपमेवेदम्' इत्यवधारणात्मक इत्यर्थः । उक्तं च- 'एवमवग्रहोऽपि निश्चितमवगृह्णाति, कार्यत उपलब्धेः ' अन्यथाऽवग्रहकार्यभूतोऽपायोऽपि निश्चयात्मको न स्यादिति भावः । आह- ननु नियतोऽर्थाभिमुख एव भवति, ततो नियतत्वविशेषणमेवाऽस्तु, किमाभिमुख्यविशेषणेन ? । तदयुक्तम्, द्विचन्द्रज्ञानस्य तैमिरिकं प्रति नियतत्वे सत्यप्यर्थाभिमुख्याभावादिति । एवं च सति अर्थाभिमुखो नियतो यो बोधः स तीर्थकर - गणधरादीनामभिनिबोधो मतोऽभिप्रेतः । सो चेवाभिणिबोहियमिति स एवाऽभिनिबोध एवाऽऽभिनिबोधिकम्, विनयादिपाठादभिनिबोधशब्दस्य 'विनयादिभ्यष्ठक् [पा० ५|४ | ३४] इत्यनेन स्वार्थ एव ठक्प्रत्ययः; यथा विनय एव वैनयिकमिति अहव जहाजोगमाउज्जं ति, अथवा नेह स्वार्थिकप्रत्ययो विधीयते, किन्तु यथायोगं यथासंबन्धमायोजनीयं घटमानसंबन्धानुसारेण स्वयमेव वक्तव्यमित्यर्थः, तद्यथा - अर्थाभिमुखे नियते बोधे भवमाभिनिबोधिकम्, तेन वा निर्वृत्तम्, तन्मयं वा, तत्प्रयोजनं वाऽऽभिनिबोधिकम्, तच्च तज्ज्ञानं चाऽऽभिनिबोधिकज्ञानम् ॥ इति गाथार्थः ||८०|| तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम् । अथवा ज्ञानम्, क्षयोपशमः, आत्मा वा तद्वाच्य इति दर्शयन्नाह - तं तेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा तं । तं तमिव सुइ सो वा सुअं तेणं ॥ ८१ ॥ व्या० तं ति आभिमुख्येन निश्चितत्वेन संवेदयते आत्मा तदित्यभिनिबोधोऽवग्रहादिज्ञानम्, स एवाऽऽभिनिबोधिकम्, अथवा आत्मा तेन प्रस्तुतज्ञानेन, तदावरणक्षयोपशमेन वा करणभूतेन घटादि वस्त्वभिनिबुध्यते, तस्माद् वा प्रकृतज्ञानात्, क्षयोपशमाद्वाऽभिनिबुध्यते; तस्मिन् वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनिबुध्यतेऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579