Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 531
________________ प्रथमं परिशिष्टम् - टिप्पनानि प्राग्वत् । ताः कुतः ? एकस्य प्रतिप्रच्छन्नमुदग्रबुद्धितया प्रश्ने चरत्वात् । न कुतश्चित्, अत एव विनयादेकगृहणादिः, वैयावृत्त्यमौषधसंपादनादि, आराधनता वा नमस्कारप्रत्याख्यानादिभावरूपा, मरणान्ते मरणलक्षणावसानकाले कुत इति वर्तते ॥ १५७॥ ११६ तथा - पिल्लिज्जेसणमिक्को पइन्नपमयाजणाउ निच्च भयं । काउमणोवि अकज्जं न तरइ काऊ बहुझे || १५८ ।। व्या० प्रेरयेन्निर्भयत्वादुल्लंघयेत् एषणां गवेषणग्रहणग्रासविषयामागमोक्तां मार्गणामेकः, प्रकीर्णप्रमदाजनादितस्ततो विक्षिप्तस्त्रीलोकात् सकाशादेकस्य नित्यभयं सदाभीतिश्चारित्रधनापहारित्वात्तस्य, व्यतिरेकमाह- कर्मोदयात्कर्तुमना अप्यकार्यं न तरति, न शक्नोति कर्तुम्, बहुमध्ये नियन्त्रितत्वादिति ॥ १५८॥ यथा - उच्चारपासवणवंत-पित्तमुच्छाइमोहिओ इक्को । सदवभाणविहत्थो निक्खिव व कुणइ उड्डाहं ॥१५९॥ व्या० उच्चारं पुरीषम्, प्रश्रवणं मूत्रम्, वान्तं वमनम् पित्तमूर्छा पित्तोद्रेकादाकस्मिकी विह्वलता, आदिशब्दाद्वातविसूचिकादिग्रहः । एतैरकाण्डप्रवृत्तैर्मोहितो विधुरितशरीर एकः सद्रवभाजनविहस्तः सपानकपात्रव्यग्रकरः सन्, वाशब्दो यदिशब्दार्थः, यदि तद्भाजनं निक्षिपति विह्वलतापातेन प्रेरयति तदात्मसंयमविराधनेति गम्यते । अथागृहीतेनाचरति उच्चारादीनि । ततः करोत्युड्डाहं प्रवचनलाघवमिति ॥ १५९ ॥ अन्यच्च - एगदिवसेण बहुआ सुहा य असुहा य जीवपरिणामा । इक्को असुहपरिणओ चइज्ज आलंबणं लद्धुं ॥ १६० ।। व्या० एकदिवसेन बहवः शुभाश्चाशुभाश्च जीवपरिणामा मनोवितर्का भवन्ति, यदि नामैवं ततः किमित्याह - एकोऽसहायोऽशुभपरिणामतः क्लिष्टाध्यवसायगतचित्तः सन् त्यजेदुज्झेत्संयममिति गम्यते, आलम्बनं स्वमतिविकल्पितं किञ्चित्कारणं लब्ध्वा प्राप्येति ॥ १६०॥ किंच- सव्वजिणप्पडिकुटुं अणवत्था थेरकप्पभेओ अ । इक्को अ सुआउत्तो वि हणड़ तवसंजमं अइरा ॥ १६९ ॥ व्या० सर्वजिनैः ऋषभादिभिः प्रतिक्रुष्टम् इति समासः, एकाकित्वमिति गम्यते । तथाहि-अस्मिन् सत्यनवस्था भवति प्रमादप्रचुरतया प्राणिनामपरेषामपि तथा प्रवृत्तेः, अतः स्थविरकल्पभेदश्च, अयः शलाकाकल्पतापत्तेः किं बहुना ? एकः, चशब्दोऽवधारणार्थः, स च पर्यन्ते संभत्स्यते, स्वायुक्तोऽपि सुष्ट्वप्रमत्तोऽपि, आस्तामपरः किम् ? हन्ति विनाशयति तपः प्रधानः संयमस्तपःसंयमस्तमचिरादेव शीघ्रमेवेत्यर्थः ॥१६१॥" इति उपदेशमाला० सिद्धर्षिगणि० [पृ०५८५] "इदाणिं 'अतिहि' त्ति पाएण देति लोगो, उवयारी परिजितेसु वुसिते वा । जो पुण अद्धाखिणं, अतिहिं पूएति तं दाणं ॥ ४४२५ || पातोग्गहं जतो बाहुल्ये उवकारकारी, परिचितो मित्तादी वुसितो समोसिओएगगामनिवासी वा । पायसो एरिसेसु दाणं लोगो देति, तं च दाणं ण भवति । जो त्ति दाता, पुणो त्ति विसेसणे । किं विसेसेति ? अद्धाणं, तम्मि अद्धाणे जो खिन्नः श्रान्त इत्यर्थः, सो अतिही भवति, नान्यः, तं जो पूएति सो दाता, तं च दाणं जं तारिसस्स अतिहिस्स दिज्जति । अतिथावुपस्थितः अतिथी ||४४२५ || अतिहि त्ति गतं । Jain Education International -M For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579