Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 529
________________ ११४ प्रथमं परिशिष्टम्- टिप्पनानि साणियं च सणवक्के । पोत्तय कप्पासमयं, तिरीडरुक्खा तिरिडपट्टो ॥३६६३॥ व्या० अतसीमयं वा वंसि त्ति वंशकरीलस्य मध्याद् यद् निष्पद्यते तद् वा, एवमादिकं भाङ्गिकम् । यत् पुनः सनवृक्षवल्काद् जातं तद् वस्त्रं सानकम् । पोतकं कर्पासमयम् । तिरीटवृक्षवल्काद् जातं तिरीटपट्टकम् ॥३६६३॥ पंच परूवेऊणं, पत्तेयं गेण्हमाण संतम्मि । कप्पासिगा य दोण्णि उ, उण्णिय एक्को य परिभोगो ॥३६६४॥ व्या० एवं पञ्च वस्त्राणि प्ररूप्य सम्प्रति ग्रहणविधिरभिधीयतेप्रत्येकम् एकैकस्य साधोः प्रायोग्याणि वस्त्राणि गृह्णता सति विद्यमाने लोभे द्वौ कल्पौ कार्पासिकौ एकश्चौर्णिक इत्येवं त्रयः कल्पा ग्रहीतव्याः । परिभोगश्चामीषाम्, वक्ष्यमाणविधिना विधातव्यः । एषा पुरातना गाथा ॥३६६४॥ अथ कार्पासिकं न प्राप्यते ततः किं कर्त्तव्यम् ? इत्याह- कप्पासियस्स असती, वागय पट्टे य कोसियारे य । असती य उण्णियस्सा, वागत कोसेज पट्टे य ॥३६६८॥ व्या० कार्पासिकस्याभावे वल्कजम्, तस्याभावे पट्टवस्त्रम्, तदप्राप्तौ कौशिकारवस्त्रमपि ग्रहीतव्यम् । अथौर्णिकं न प्राप्यते तत और्णिकस्य स्थाने प्रथमं वल्कजं ततः कौशेयं ततः पट्टजमपि ग्राह्यम् । यद्वा पट्टशब्देनात्र तिरीटपट्टकमुच्यते । चशब्दादतसी-वंशीमयमपि ग्रहीतव्यम् ॥३६६८॥" - बृहत्कल्पटीका० । “इदाणिं णिज्जुत्ति-वित्थरो- पाउंछणगं दुविधं, उस्सग्गियमाववातियं चेव। एक्कक्कं पि य दुविधं, णिव्वाघातं चा वाघातं ॥८१९॥ पाउंछणं रओहरणं, तं दुविधं- उस्सग्गियं आववातियं च । उस्सग्गियं दुविध- णिव्वाघातितं वाघातियं च । आववातितं पि य दुविधं-णिव्वाघातितं वाघातितं च ॥८१९॥ ___जं तं णिव्वाघातं, तं एगं उण्णियं तु घेत्तव्वं। उस्सग्गियवाघातं, उट्टियसणवजमुंजं च ॥८२३॥ पूर्वार्धन प्रथमभंगार्थः पश्चार्धेन द्वितीयभंगार्थः ॥८२३॥ णिव्वाघातववादी, दारुगदंडुण्णियाहिं दसियाहिं । अववातियवाघातं, उट्टियसणवच्चमुंजदसं ॥८२४॥ पूर्वार्धन तृतीयभंगार्थः । पश्चार्धन चतुर्थभंगार्थः ॥८२४॥" - निशीथ० चूर्णिः ।। [पृ०५८०] “इदं च वक्ष्यमाणलक्षणमन्यत्- ठाणनिसीयतुयट्टण उच्चाराईणि चेव उस्सग्गो। घट्टगडगलगलेवो एमाइ पओयणं बहुहा ॥५५९॥ वृ० स्थानं-कायोत्सर्गः, सोऽचेतने पृथिवीकाये क्रियते, निषीदनम्-उपवेशनं त्वग्वर्त्तनं-निमज्जनं च क्रियते उच्चारादीनां वोत्सर्गः क्रियते, घट्टग त्ति घट्टकः पाषाणकः येन पात्रकं लेपितं सद् घृष्यते, तथा डगलका: अपानप्रोञ्छनार्थं लेपकश्च पात्रकाणाम्, एवमादि प्रयोजनमचित्तेन पृथिवीकायः ॥५५९॥ परिसेयपियणहत्थाइधोयणा चीरधोयणा चेव । आयमण भाणधुवणे एमाइ पओयणं बहुहा ॥५६४॥ वृ० परिषेकः- सेचनं कुष्ठाद्युत्थिते सति क्रियते, तथा पानं हस्तादिधावनं च क्रियते, तथा आचमनं भाजनप्रक्षालनं च क्रियते, एवमादीनि प्रयोजनानि बहुधा भवन्ति ॥५६४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579