________________
११४
प्रथमं परिशिष्टम्- टिप्पनानि साणियं च सणवक्के । पोत्तय कप्पासमयं, तिरीडरुक्खा तिरिडपट्टो ॥३६६३॥ व्या० अतसीमयं वा वंसि त्ति वंशकरीलस्य मध्याद् यद् निष्पद्यते तद् वा, एवमादिकं भाङ्गिकम् । यत् पुनः सनवृक्षवल्काद् जातं तद् वस्त्रं सानकम् । पोतकं कर्पासमयम् । तिरीटवृक्षवल्काद् जातं तिरीटपट्टकम् ॥३६६३॥ पंच परूवेऊणं, पत्तेयं गेण्हमाण संतम्मि । कप्पासिगा य दोण्णि उ, उण्णिय एक्को य परिभोगो ॥३६६४॥ व्या० एवं पञ्च वस्त्राणि प्ररूप्य सम्प्रति ग्रहणविधिरभिधीयतेप्रत्येकम् एकैकस्य साधोः प्रायोग्याणि वस्त्राणि गृह्णता सति विद्यमाने लोभे द्वौ कल्पौ कार्पासिकौ एकश्चौर्णिक इत्येवं त्रयः कल्पा ग्रहीतव्याः । परिभोगश्चामीषाम्, वक्ष्यमाणविधिना विधातव्यः । एषा पुरातना गाथा ॥३६६४॥ अथ कार्पासिकं न प्राप्यते ततः किं कर्त्तव्यम् ? इत्याह- कप्पासियस्स असती, वागय पट्टे य कोसियारे य । असती य उण्णियस्सा, वागत कोसेज पट्टे य ॥३६६८॥ व्या० कार्पासिकस्याभावे वल्कजम्, तस्याभावे पट्टवस्त्रम्, तदप्राप्तौ कौशिकारवस्त्रमपि ग्रहीतव्यम् । अथौर्णिकं न प्राप्यते तत और्णिकस्य स्थाने प्रथमं वल्कजं ततः कौशेयं ततः पट्टजमपि ग्राह्यम् । यद्वा पट्टशब्देनात्र तिरीटपट्टकमुच्यते । चशब्दादतसी-वंशीमयमपि ग्रहीतव्यम् ॥३६६८॥" - बृहत्कल्पटीका० ।
“इदाणिं णिज्जुत्ति-वित्थरो- पाउंछणगं दुविधं, उस्सग्गियमाववातियं चेव। एक्कक्कं पि य दुविधं, णिव्वाघातं चा वाघातं ॥८१९॥ पाउंछणं रओहरणं, तं दुविधं- उस्सग्गियं आववातियं च । उस्सग्गियं दुविध- णिव्वाघातितं वाघातियं च । आववातितं पि य दुविधं-णिव्वाघातितं वाघातितं च ॥८१९॥ ___जं तं णिव्वाघातं, तं एगं उण्णियं तु घेत्तव्वं। उस्सग्गियवाघातं, उट्टियसणवजमुंजं च ॥८२३॥ पूर्वार्धन प्रथमभंगार्थः पश्चार्धेन द्वितीयभंगार्थः ॥८२३॥ णिव्वाघातववादी, दारुगदंडुण्णियाहिं दसियाहिं । अववातियवाघातं, उट्टियसणवच्चमुंजदसं ॥८२४॥ पूर्वार्धन तृतीयभंगार्थः । पश्चार्धन चतुर्थभंगार्थः ॥८२४॥" - निशीथ० चूर्णिः ।।
[पृ०५८०] “इदं च वक्ष्यमाणलक्षणमन्यत्- ठाणनिसीयतुयट्टण उच्चाराईणि चेव उस्सग्गो। घट्टगडगलगलेवो एमाइ पओयणं बहुहा ॥५५९॥ वृ० स्थानं-कायोत्सर्गः, सोऽचेतने पृथिवीकाये क्रियते, निषीदनम्-उपवेशनं त्वग्वर्त्तनं-निमज्जनं च क्रियते उच्चारादीनां वोत्सर्गः क्रियते, घट्टग त्ति घट्टकः पाषाणकः येन पात्रकं लेपितं सद् घृष्यते, तथा डगलका: अपानप्रोञ्छनार्थं लेपकश्च पात्रकाणाम्, एवमादि प्रयोजनमचित्तेन पृथिवीकायः ॥५५९॥
परिसेयपियणहत्थाइधोयणा चीरधोयणा चेव । आयमण भाणधुवणे एमाइ पओयणं बहुहा ॥५६४॥ वृ० परिषेकः- सेचनं कुष्ठाद्युत्थिते सति क्रियते, तथा पानं हस्तादिधावनं च क्रियते, तथा आचमनं भाजनप्रक्षालनं च क्रियते, एवमादीनि प्रयोजनानि बहुधा भवन्ति ॥५६४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org