SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि ११३ किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धि-समिति-भावना- तपः-प्रतिमा-ऽभिग्रहादिषु विराधयन्तः खण्डयन्तोऽतिचरन्तः सर्वज्ञाज्ञोल्लङ्घनमाचरन्ति ते प्रतिसेवनाकुशीला: ॥ ____ कषायकुशीलानाचष्टे- भा० येषां तु संयतानां सतां कथञ्चित् सज्वलनकषाया उदीर्यन्ते ते कषायकुशीलाः ॥ टी०- येषां त्वित्यादि । येषां संयतानां सतां मूलोत्तरगुणसम्पदुपेतानामपि भवतां कथञ्चित् केन प्रकारेण स्वल्पेनापि हेतुना कुड्यकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना सज्वलनकषायाः क्रोधादयः उदीर्यन्ते उदयमुपनीयन्ते, किञ्चिदेव कारणमासाद्योदयं गच्छन्ति ते कषायकुशीलाः ॥" - तत्त्वार्थ० सिद्धसेन० ॥ [पृ० ५७८] “धारणया उ अभोगो, परिहरणा तस्स होइ परिभोगो । दुविहेण वि सो कप्पइ, परिहारेणं तु परिभोतुं ॥२३६७॥ इह द्विधा परिहारः, तद्यथा-धारणा परिहरणा च । तत्र धारणा अभोग: अव्यापारणम्, संयमोपबृंहणार्थं स्वसत्तायां स्थापनमित्यर्थः । परिहरणा नाम तस्य घटीमात्रकादेरुपकरणस्य परिभोग: व्यापारणम् । एतेन द्विविधेनापि परिहारेण स घटीमात्रको निर्ग्रन्थीनां परिभोक्तुं कल्पते । स च दिवसं यावत् पानकपूर्णस्तिष्ठति ॥२३६७॥ धारणया उ अभोगो, परिहरणा तस्स होइ परिभोगो । चेलं तु पहाणयरं, तो गहणं तस्स नऽन्नासिं ॥२३७२॥ धारणता नाम अभोगः अव्यापारणम्, परिहरणा तु तस्य चिलिमिलिकाख्यस्योपकरणस्य परिभोग: व्यापारणमुच्यते । आह वस्त्र-रज्जु-कट-बल्क-दण्डभेदात् पञ्चविद्या चिलिमिलिका वक्ष्यते तत् कथं सूत्रे चेलचिलिमिलिकाया एव ग्रहणम् ? इत्याह-चेलं तु वस्त्रं रज्ज्वादीनां मध्ये बहुतरोपयोगित्वात् प्रधानतरं ततस्तस्यैव सूत्रे ग्रहणं कृतम्, न ‘अन्यासां' रज्जुचिलिमिलिकादीनाम् ॥२३७२॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह- जंगमजायं जंगिय, तं पुण विगलिंदियं च पंचिंदी। एक्कक्कं पि य एत्तो, होति विभागेणऽणेगविहं ॥३६६१॥ व्या० जङ्गमेभ्यो जातं जङ्गिकम्, तत् पुनर्विकलेन्द्रियनिष्पन्नं पञ्चेन्द्रियनिष्पन्नं वा । अनयोर्मध्ये एकैकमपि विभागेन चिन्त्यमानमनेकविधं भवति ॥३६६१॥ तद्यथा- पट्ट सुवन्ने मलए, अंसुग चीणंसुके च विगलेंदी। उण्णोट्टिय मियलोमे, कुतवे किट्टे त पंदी ॥३६६२॥ व्या० पट्ट त्ति पट्टसूत्रजम्, सुवन्ने त्ति सुवर्णवर्णं सूत्रं केषाञ्चित् कृमीणां भवति तनिष्पन्नं सुवर्णसूत्रजम्, मलयो नाम देशस्तत्सम्भवं मलयजम्, अंशुकः श्लक्ष्णपट्टः तनिष्पन्नमंशुकम्, चीनांशुको नाम कोशिकाराख्यः कृमिः तस्माद् जातं चीनांशुकम्, यद्वा चीना नाम जनपदः तत्र यः श्लक्ष्णतर: पट्टस्तस्माद् जातं चीनांशुकम्, एतानि विकलेन्द्रियनिष्पन्नानि । तथा और्णिकमौष्ट्रिकं मृगरोमजं चेति प्रतीतानि, कुतपो जीणम्, किटं तेषामेवोर्णारोमादीनामवयवाः तनिष्पन्नं वस्त्रमपि किट्टम्, एतानि पञ्चेन्द्रियनिष्पन्नानि द्रष्टव्यानि ॥३६६२॥" - बृहत्कल्पटीका०। [पृ० ५७९] “अथ भाङ्गिकादीनि चत्वार्यप्येकगाथया व्याचष्टे- अतसी-वंसीमादी, उ भंगियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy