________________
प्रथमं परिशिष्टम् - टिप्पनानि
एवं निर्ग्रन्थोऽपि लब्धिमुत्पन्नां तपः श्रुताभ्यां हेतुभ्यामुपजीवन् सकलसंयमगलनात् पलञ्जिरूपं निःसारमात्मानं करोति । ज्ञानदर्शनचरणानि च सारः, तदपगमान्निः सारः । जिनप्रणीतादागमाद्धेतुतः, सदैवाप्रतिपातिन आगमाच्च सम्यग्दर्शनमूलज्ञानचरणे निर्वाणहेतू इत्यस्मादपरिभ्रष्टाः श्रद्दधाना ज्ञानानुसारेण क्रियाऽनुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थाः पुलाका भवन्ति । उपजीवन्तश्च निःसारतामात्मनः कुर्वन्तीति ग्राह्यम् । सततमप्रमादिन इत्यपरे पठन्ति । जिनोक्ताद् वाऽऽगमाद्धेतुभूतान्मुक्तिसाधनेषु न प्रमाद्यन्ति जातुचिदिति ॥
बकुश इति शबलपर्यायः । शबलो वर्णव्यतिकरः क्वचिद् वलक्षः क्वचित् कृष्णः क्वचिद् रक्तः एक एव पटः । एवमयमपि निर्ग्रन्थः । सातिचारत्वाच्चरणपटं शबलयति विशुद्ध्यशुद्धिव्यतिकीर्णस्वभावं करोति । स च द्विधा - शरीरोपकरणभेदेन । तदाह वृत्ति ( भाष्य ? ) कार : - नैर्ग्रन्थ्यं प्रति प्रस्थिता इत्यादि । निर्ग्रन्थस्य भावो नैर्ग्रन्थ्यम् अष्टाविंशतिविधमोहनीयक्षयस्तत् प्रति प्रस्थिताः - प्रवृत्तास्तदभिमुखास्तत्क्षयाकाङ्क्षिणः । शरीरम् अङ्गोपाङ्गसङ्घातः, उपकारित्वादुपकरणं वस्त्रपात्रादि, तद्विषयां विभूषाम् अलङ्कृतिमनुवर्तन्ते, तच्छीलाश्चेति । शरीरे तावदनागुप्तव्यतिरेकेण कर-चरणवदनप्रक्षालनमक्षि-कर्ण-नासिकावयवेभ्यो दूषिकामलाद्यपनयनं दन्तपवनभ (प्र)क्षणं केशसंस्कारं च विभूषार्थमाचरन् शारीरबकुशो भवति । उपकरणबकुशस्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्चोक्षकवासःप्रियः पात्रदण्डकाद्यपि तैलपात्रया (त्र्या) उज्ज्वलीकृत्य विभूषार्थमनुवर्तमानो बिभर्ति, ऋद्धीः प्रभूतवस्त्रपात्रादिकास्ता इच्छन्ति कामयन्ते तत्कामाः यशः ख्यातिगुणवन्तो विशिष्टाः साधवः इत्येवंविधः प्रवादस्तच्च यशः कामयन्त इति ऋद्धियशस्कामाः । सातगौरवमाश्रिता इति । सुखशीलता सातगौरवं तदाश्रिताः । आदरवचनो गौरवशब्दः । सुखे य आदरः तदवाप्तिव्यापारप्रवणता तदाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः । अविविक्ता इति नासंयमात् पृथग्भूता घृष्टजङ्घाः तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषां ते अविविक्तपरिवारा: सर्वदेशच्छेदार्हातीचारजनितशबलेन वैचित्र्येण युक्ताः एवंविधा निर्ग्रन्थाः बकुशसंज्ञाः ॥
कुशीलस्वरूपनिर्धारणायाह- भा० कुशीला द्विविधाः - प्रतिसेवनाकुशीलाः कषायकुशीलाश्च । तत्र प्रतिसेवनाकुशीला नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियमितेन्द्रियाः कथञ्चित् किञ्चिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीलाः ॥ टी० कुशीला द्विविधा इत्यादि । अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभङ्गेन केनचित् कषायोदयेन वा कुत्सितं येषां ते कुशीला द्विप्रकाराः । तत्प्रकाराख्यानायाह- प्रतिसेवनाकुशीलाः कषायकुशीलाश्चेति । आसेवनं भजनं प्रतिसेवना तया कुत्सितं शीलमेषामिति प्रतिसेवनाकुशीलाः, कषायाः संज्वलनाख्यास्तदुदयात् कुत्सितं शीलमेषामिति कषायकुशीलाः । तत्र तयोः, प्रतिसेवनाकुशीला नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियमितेन्द्रिया इन्द्रियनियमशून्या रूपादिविषयेक्षणकृतादराः कथञ्चित् केनचित् प्रकारेण व्याजमुपदिश्य
१९२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org